014 मनादेयं भवति। तद्दिविधम्—अभागं भागवच्चेति । आद्यं देश्यम्, द्वितीयं ग्राम्यमिति विभागः । व्युत्पन्नानामन्यादृशी च्छाया देश्यानां च न तादृशीति देश्यवेद्यपदसमभिव्याहारे प्रायेण छायावैरूप्यं बन्धस्य भवतीति सहृदयहृदयसाक्षिकं दोषबीजम् । तल्लमल्पसरः, लडहं मनोहरम्, मडहं कृशम्, वोसट्टं विकसितम्, कन्दोट्टं नीलोत्पलम्, मोट्टायितं विलासः ॥

अश्लीलामङ्गलघृणावदर्थ ग्राम्यमुच्यते ॥ १४ ॥
अत्राश्लीलमसभ्यार्थमसभ्यार्थान्तरं च यत् ।
असभ्यस्मृतिहेतुश्च त्रिविधं परिपठ्यते ॥ १५ ॥

तेष्वसभ्यार्थं यथा—

‘छत्राकारशिराः शिरालसरसस्थूलप्रकाण्डो महा- न्मध्ये भानुसुताभ्रसिन्धुविपुलाभोगो वटः पातु वः ।
कायैक्ये विकटप्रसारितमहाजङ्घं महीसुप्तयो- र्यः खण्डेन्दुकिरीटकैटभजितोः काटश्रियं कर्षति ॥ १६ ॥’

तदेतच्छत्राकारशिराः काट इत्यादेरसभ्यार्थत्वादसभ्यार्थम् ॥

अश्लीलेति । देश्यातिरिक्तं लोकमात्रप्रयुक्तं ग्राम्यम् । तत्रिधा—व्रीडाजुगुप्सातङ्कदायित्वात् । तत्राद्यमश्लीलं श्रीर्यस्यास्ति तच्छ्लीलम् । सिध्मादेराकृतिगणत्वाल्लच । कपिलकादिपाठाल्लत्वम् । न श्लीलमश्लीलम् । व्रीडादायित्वेनाकान्तमित्यर्थः । द्वितीयं घृणावदर्थकम् । जुगुप्सादायि प्रत्याय्यमस्येति । तृतीयममङ्गलार्थमातङ्कदायिज्ञाप्यमस्येति कृत्वाश्लीलपर्यायोऽसभ्यशब्दः । सभायां साधुरित्यर्थे तेनापि शास्त्रे व्यवहार इति प्रदर्शनार्थमसत्यशब्देनाश्लीलमनूद्य व्याचष्टे । तत्रासभ्यमिति । अर्थस्यासभ्यत्वात्पदमप्यसभ्यम् । स चार्थः क्वचित्प्रकृतोऽप्रकृतोऽपि श्लेषोपस्थित एकदेशात्स्मृतिमात्रारूढो वा । तत्र यथाक्रममसभ्यादयस्त्रयः । एवममङ्गलादयोऽपि । सूर्यसुता यमुना । अभ्रसिन्धुर्गङ्गा । तयोर्मध्ये ‘पारे मध्ये षष्ठ्या वा’ इत्यव्ययीभावः । अर्धं हरेरर्धं हरस्येति शरीरैक्ये काटशब्दस्यासभ्यार्थत्वे तद्विशेषणानामप्यसभ्यत्वमिति तान्यादाय व्याचष्टे—अत्र छत्राकारेति ॥