125 नुभवनीयं दुःखं छिनत्ति । श्रियापि स्तुतेति । अष्टदलकमलबन्धोऽयम् । तदिह तथा वरा(?)संनिवेशस्य चमत्कारकारित्वेन प्रसादोऽपि सहृदयश्लाघाविषयो गुणतामध्यास्त इति ॥

अध्याहारादिगम्यार्थं नेयार्थं प्रागुदाहृतम् ।
स गम्यते प्रसिद्धश्चेन्न तद्दोषवदिष्यते ॥ १३० ॥

यथा—

‘मां भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा ।
वाहिनीजलभरः कुलिशं वा स्वस्ति तेऽस्तु लतया सह वृक्ष ॥ १७२ ॥’

अत्र दहत्वित्यादीनामध्याहार्यतया नेयत्वेऽप्यतिप्रसिध्द्या प्रतीयमानत्वाद्गुणत्वम् ॥

अध्याहारेति । असंपूर्णं वाक्यं नेयार्थमित्युक्तं तस्यैवंरूपता झटिति श्रुतार्थापत्तिप्रादुर्भावपरिह्नवकसंधानात्समाधीयते । तथा हि—‘मा भवन्तमनलः’ इत्यादौ वृक्षसमभिव्याहारेण दहनादीनां योग्यतया शीघ्रमेव धाक्षीदित्यादिक्रियान्वयोऽवसीयते । स्वस्तिवचनेन चामङ्गलप्रस्तावनिरासात्तथाभूतक्रियानुपादानं वक्रक्षमतया गुण इति ॥

असभ्यार्यं मतं ग्राम्यं तद्ग्राम्योत्त्क्यैव दुष्यति ।
विदग्धोक्तौ तु तस्याहुर्गुणवत्त्वं मनीषिणः ॥ १३१ ॥

यथा—

‘कामं कन्दर्पचाण्डालो मयि वामाक्षि निर्दयः ।
त्वयि 85निर्मत्सरो दिष्ट्या सोऽयमस्मास्वनुग्रहः ॥ १७३ ॥’

अत्र ग्राम्यत्वेऽपि ग्राम्यार्थस्य विदग्धोक्त्या तिरस्कृतत्वाद्गुणत्वम् ॥

असभ्यार्थमिति । रसस्यादीप्तिः कान्तिविपर्ययो 86वचनापराधेन दूषणतामध्यास्ते, स समाधीयतेऽत्र ग्राम्योक्तिपरिहारेणैव । अत एवोक्तिसमर्पितच्छायाविशेषयोगे गुणत्वलाभः । सहृदयसभायां न साधुरसभ्यः । वैदग्ध्यविधुरं ग्राम्यम् ॥

ओजः समासभूयस्त्वं तद्दीप्तार्थेषु वध्यते ।
विपर्ययोऽस्याः समस्तं तद्दीप्तं चेन्न दोषभाक् ॥ १३२ ॥
  1. ‘निर्भर्त्सनो’ ग
  2. ‘वचनापरार्धेन’ इति पाठः