131

अत्र पौर्वापर्यविपर्ययादपक्रमदोषस्य चन्द्रोदयं प्रति रागोद्दीपनप्रकर्षप्रकाशनत्वाददोषः ॥

वाक्य इति । अर्थानां कार्यकारणभूतानां तेषामेव पौर्वापर्यनियमाद्य इति पूर्वार्धेऽध्याहार्यम् । चित्रहेताविति प्रसिद्धरूपविपर्यासेन हेतुवचनद्वारा प्रकृतवाक्यार्थपरिपोषाधानं चित्रहेतुः । पर्यस्य विस्तार्य चन्द्रोदयरागोद्दीपनयोः सत्यपि हेतुहेतुमद्भावेन पौर्वापर्ये प्रथमं रागसागरः पश्चाच्चन्द्रमण्डलमुदीर्णमिति विपर्यासप्रतीतिसमसमयमुद्दीपनविभावनानुसंधानाद् हिमांशोरतिशीघ्रकारिताप्रकाशनात् प्रकृतशृङ्गाररसो दीप्यते । एवं कुलकादिरूपं प्रबन्धान्तर्गतवाक्येष्वपि गुणत्वमवसेयम् ॥

यस्मिन्रीतेरनिर्वाहः खिन्नं तदभिधीयते ।
न दोषस्तस्य तु क्वापि यत्र च्छाया न हीयते ॥ १४१ ॥

यथा—

‘अभिनववधूरोषस्वादुः करीषतनूनपा- दसरलजनाश्लेषक्रूरस्तुषारसमीरणः ।
गलितविभवस्याज्ञेवाद्य द्युतिर्मसृणा रवे- र्विरहिवनितावक्रक्लैब्यं बिभर्ति निशाकरः ॥ १८३ ॥’

अत्रोपमानानि सामान्यवचनैः समस्यन्त इति प्रक्रान्तरीतेरनिर्वाहेऽपि समासव्याख्यापरत्वेनैव इवशब्दतद्धितयोः प्रयोगे प्रत्युत च्छायोत्कर्ष इति गुणत्वम् ॥

यस्मिन्निति । वाक्यार्थस्य धर्मिणो यदलंकारभङ्ग्या प्रक्रमस्थया निर्वहणाभावः खेदः । स तु पूर्वालंकारविश्रान्तौ प्रतीतेरस्खलने न दोषः । गुणत्वं च तस्य भङ्ग्यन्तरैरपि प्रकृतालंकारे ध्वननात् । तथा हि—‘अभिनववधूरोषस्वादु असरलजनाश्लेष इव क्रूरः’ इत्युपमानानि सामान्यवचनैः समस्यन्त इति समासद्वयेनोपमामुपक्रम्य मलिनविभवस्याज्ञेवेति समासत्यागाद्विरहिवनितावक्रक्लैब्यं बिभर्तीति चान्तरधर्मारोपेण चोपमात्यागात्सत्यपि रीतेरनिर्वाहे उपमायामेव पर्यवसानं समाधानहेतुः । गुणत्वहेतुमाह—व्याख्यापरत्वेनेति । गलितविभावाज्ञामसृणेति समासे कर्तव्ये योऽयमिवशब्दप्रयोगः स इवार्थे पूर्वौ समासौ बोधयति । क्लैब्यं