015

असभ्यार्थान्तरं यथा—

‘विद्यामभ्यसतो रात्रावेति या भवतः प्रिया ।
वनितागुह्यकेशानां कथं ते पेलबन्धनम् ॥ १७ ॥’

तदेतद्या भवतः प्रिया गुह्यकेशानां पेलबन्धनशव्दानामसभ्यार्थान्तरत्वादसभ्यार्थान्तरम् ॥

विद्यामिति । या रात्रौ विद्यामभ्यसतो मन्त्रमावर्तयतस्तव प्रिया समायाति सा यक्षिणी । अतः कथं ते धनं पेलवं कोमलम् । खल्पमिति यावत् । किं तु यक्षिणीप्रसादाद्बहु धनं तवोचितमित्यर्थः । प्रकृतपदानि त्वसभ्यार्थान्तराणि तान्युद्धृत्य व्याचष्टे—तदेतद्या भवतः प्रियेति । असभ्यार्थप्रकाशनमेव षष्ठ्या आक्रोश इत्यर्थः । या भवतः प्रियेति एकं पदं याभो मैथुनं तद्वतः प्रियेत्यर्थात् । योनिर्वनिताया गुह्यस्तस्य केशाः । पेलशब्दो मुष्कयोः प्रसिद्धः । तत्र बन्धनमिति ॥

असभ्यस्मृतिहेतुर्यथा—

‘उत्कम्पयसि मां चूत पिकवाक्काटवेन किम् ।
कृतः कृकाटिकायां ते पादः प्राणेन यास्यता ॥ १८ ॥’

तदिदं काटवकृकाटिकापादयोरसभ्यस्मृतिहेतुत्वादसभ्यस्मृतिहेतुता ॥

उत्कम्पयसीति । हे चूतवृक्ष, कोकिलस्य वाचा कटुत्वेन दुःखदायित्वात् किं मां भापयसि । ननु तव कृकाटिकायां प्रीवायां पादं दत्त्वा चलिता मम प्राणास्तेन मया जितम् । व्यर्थस्तवायं परिश्रम इति वाक्यार्थो विवक्षितः । काटवशब्दे काट एकदेशः कृकाटिकाशव्दे काटिकेति लोपः । काटः काटिका ॥

लोकेषु यदशस्तार्थमशस्तार्थान्तरं च यत् ।
अशस्तस्मृतिहेतुश्चामङ्गलार्थं त्रिधैव तत् ॥ १६ ॥

तेष्वशस्तार्थं यथा—

‘खेटके भक्तसूपस्य वलभ्याः पत्तनस्य च ।
अतृप्तोऽहं मरिष्यामि हेहले भाषितस्य च ॥ १९ ॥’

अत्र मरिष्यामीतिपदमशस्तार्थम् ॥