अप्रस्तुतेति । अप्राधान्य इत्युपलक्षणं बाध्यत्वेऽपीति च बोद्धव्यम् रसवस्तुनोः परस्परविरोधिरसव्यञ्जकयोः । यद्वा मिथोविरोधिरसरूपयोरेव वस्तुनः । तदाह—‘बाध्यानामङ्गभावं वा प्राप्तानामवि102मुक्तता’ इति ॥
यथा—
अत्रोपमानस्य हीनतायामपि रागातिशयहेतुत्वाद्गुणत्वम् ॥
हीनमिति । जातिप्रमाणाभ्यामपकृष्टं हीनं चन्द्रापेक्षया कामिनीकपोलस्यापकर्षे आत्मनस्तुल्यतामुद्दीपनस्य प्रतिपाद्यमानः प्रकृतशृङ्गारप्रकर्षमर्पयिष्यतीति गुणत्वम् । एवमधिकोपमेऽपि ॥
यथा—
अस्याधिकौपम्येऽपि राज्ञो लोकपालांशत्वेन शिष्टैरादृतत्वाद्गुणत्वम् ॥'
यथा—