135

अस्यासदृशोपमत्वेऽपि व्यतिरेकोपपादकत्वाद्गुणत्वम् ॥

उपमानस्येति । उपमानेन वैषम्यमन्वयेन सादृश्याभावात् । व्यतिरेकोपमादीत्यादिग्रहणाव्द्यतिरेकदृष्टान्तोत्त्क्यादिपरिग्रहः ॥

यस्योपमानं लोकेषु न प्रसिद्धं तदिष्यते ।
अप्रसिद्धोपमं नाम तत्क्वचिन्नैव दुष्यति ॥ १५० ॥

यथा—

‘उद्गर्भहूणरमणीरमणोपमर्द- भुग्नोन्नतस्तननिवेशनिभं हिमांशोः ।
बिम्बं कठोरबिसकाण्डकडारगौरै- र्विष्णोः पदं प्रथममग्रकरैर्व्यनक्तिः ॥ १९३ ॥’

अस्थां प्रसिद्धोपमत्वेन दूषणत्वेऽपि द्वयोरपि श्रृङ्गारोद्दीपकत्वसाम्याद्गुणत्वम् ॥

यस्योपमानमिति । लोकप्रसिद्धमेव कविभिरुपमाने कान्तं भवति तेन यत्र लोके प्रसिद्धं तेन सहोपमावर्णने संभवदप्यप्रसिद्धोपमत्वं रसानुप्रवेशेन गुणी भवति । उद्गर्भत्वेन स्तनाग्रश्यामिका तया लाञ्छनानुकरणमभिलषितम् ॥

निरलंकारमित्याहुरलंकारोज्झितं वचः ।
अर्थौर्जित्येषु तस्यापि क्वचिन्निर्दोषता मता ॥ १५१ ॥

यथा—

‘याच्ञां दैन्यपराभवप्रणयिनीं नेक्ष्वाकवः शिक्षिताः सेवासंवलितः कदा रघुकुले मौलौ निबद्धोऽञ्जलिः ।
सर्वं तद्विहितं तथाप्युदधिना नैवोपरोधः कृतः पाणिः संप्रति मे हठात्किमपरं स्प्रष्टुं धनुर्वाञ्छति ॥ १९४ ॥’

अत्र निरलंकारत्वेऽपि अर्थौर्जित्याद्गुणत्वम् ॥

निरलंकारमिति । दैन्यपराभवप्रणयिनीमित्याद्युत्कृष्टपुष्टिविशेषणयोगादस्तिशब्देऽस्पष्टे वक्रतार्थे तु नास्ति वक्रत्वं चालंकार इति । यद्यपि वाक्यार्थो निरलंकार