136 इव भासते, तथापि विशेषतोऽलंकाराध्यवसायेऽपि सामान्येन वक्रता प्रकाशत एव । नहि लौकिकशास्त्रीयवचनार्थवैपरीत्यमिह प्रतीयते । तदिदमुक्तमर्थौर्जित्यादिति ॥

अस्ति हि वयं याचामह इत्युक्ते याच्ञा च भिक्षाकरानालक्षिता(?)इत्युक्तौ नायकप्रकर्षाभिव्यञ्जको विशेष इत्याह—

असभ्यार्थं यदश्लीलं तदर्थान्तरवाचि वा ।
तस्येह दृश्यते भूम्ना प्रयोगो नापि दुष्यति ॥ १५२ ॥

यथा—

‘अद्यापि तत्कनककुण्डलघृष्टगण्ड- मास्यं स्मरामि विपरीतरताभियोगे ।
आन्दोलनश्रमजलस्फुटघर्मबिन्दु- मुक्ताफलप्रकरविच्छुरितं प्रियायाः ॥ १९५ ॥’

अत्राश्लीलार्थेऽपि कविभिरविगीतत्वाद्गुणत्वम् ॥

असभ्यार्थमिति । क्वचित्प्राथमिक एव पदार्थसंसर्गोऽश्लीलः । क्वचित्तु न तस्मिंस्तथाभूतेऽपि संसर्गान्तरमिति यदश्लीलमर्थान्तरवाचि वेत्युक्तम् । कविभिरविगीतत्वादिति । अविपरीताद्विपरीतं रतमुत्कृष्यत इति शास्त्रकारैराम्नानात्तस्य शृङ्गारोद्दीपनतया कविभिरादृतत्वादित्यर्थः ॥

देशोऽद्रिवनराष्ट्रादिः कालो रात्रिंदिवर्तवः ।
नृत्यगीतप्रभृतयः कलाः कामार्थसंश्रयाः ॥ १५३ ॥
चराचराणां भूतानां प्रवृत्तिर्लोकसंज्ञिता ।
हेतुविद्यात्मको न्यायः संस्मृतिः श्रुतिरागमः ॥ १५४ ॥
तेषु तेष्वयथारूढं यदि किंचित्प्रवर्तते ।
कवेः प्रमादाद्देशादिविरोधीत्येतदुच्यते ॥ १५५ ॥
विरोधः सकलेष्वेव104 कदाचित्कविकौशलात् ।
उत्क्रम्य दोषगणनां गुणवीथीं विगाहते ॥ १५६ ॥
  1. ‘लोऽप्येष’ इति सटीकपुस्तकपाठः