137

तत्र देशविरुद्धस्य गुणीभावो यथा—

‘तस्य राज्ञः प्रभावेण तदुद्यानानि जज्ञिरे ।
आर्द्रांशुकप्रवालानामास्पदं सुरशाखिनाम् ॥ १९६ ॥’

अत्र देशविरुद्धत्वेऽपि तस्य राज्ञः प्रभावेणेति कारणोपन्यासाद्गुणत्वम् ॥

देशोऽद्रीति । आदिपदेन द्वीपादिपरिग्रहः । कामार्थसंश्रयाः, अर्थसंश्रयाः प्रवृत्तयोऽवस्थाविशेषाः । हेतुविद्या आन्वीक्षिकी । अयथारूढं अप्रसिद्धम् ॥

कालविरुद्धस्य यथा—

‘राज्ञां विनाशपिशुनश्चचार खरमारुतः ।
चुम्बन्कदम्बकुसुमैः सह सप्तच्छदोद्गमान् ॥ १९७ ॥’

अत्र कालविरुद्धत्वेऽपि राज्ञां विनाशपिशुन इत्यनिष्टसूचकोत्पात रूपत्वाद्गुणत्वम् ॥

कालविरुद्धस्येति । उपघात उत्पातः ॥

लोकविरुद्धस्य यथा—

‘ऐन्दवादर्चिषः कामी शिशिरं हव्यवाहनम् ।
अबलाविरहक्लेशविह्वलो गणयत्यलम् ॥ १९८ ॥’

अत्र लोकविरुद्धत्वेऽपि कामिभिस्तथा संवेद्यमानत्वाद्गुणत्वम् ॥

युक्तिविरुद्धस्य यथा—

‘स संकोचश्चन्द्रादिव कुमुदराशेरशरणः स सूर्यात्कोकानां विरह इव लुप्तप्रतिविधिः ।
गुणेभ्यस्ते खेदप्रशमनकरेभ्योऽपि यदयं खलानामुद्वेगस्तदिदममृतादेव मरणम् ॥ १९९ ॥’

अत्र युक्तिविरुद्धत्वेऽपि छेकोत्त्क्या संभाव्यमानोपमया तथाप्रतीतेर्गुणत्वम् ।