004

विभागमन्तरेण विशेषलक्षणानवतारात्पददोषान्विभजते—

असाधु चाप्रयुक्तं च कष्टं चानर्थकं च यत् ।
अन्यार्थकमपुष्टार्थमसमर्थं तथैव च ॥ ४ ॥
अप्रतीतमथ क्लिष्टं गूढं नेयार्थमेव च ।
संदिग्धं च विरुद्धं च प्रोक्तं यच्चाप्रयोजकम् ॥ ५ ॥
देश्यं ग्राम्यमिति स्पष्टा दोषाः स्युः पदसंश्रयाः ।

असाध्विति । मुख्यार्थहतौ मिथोऽनपेक्षासूचनया समासः । अत एव लाघवेऽनादरः । कथं पदप्रतीकदोषा न गण्यन्त इति शङ्कामभिप्रेत्याह—स्पष्टा इति । पदसंश्रयाः पदान्वयव्यतिरेकानुविधायिनः । एवं वाक्यादावपि गुणादावपीदमेवाश्रितत्वम् ॥

विभागप्रयोजनमाह—

अथैषां लक्षणं सम्यक्सोदाहरणमुच्यते ॥ ६ ॥

अथैषामिति । परीक्षां प्रतिजानीते—सम्यगिति । लक्षणदोषशून्यं लक्षणानुपपत्तिनिर्णेजनमेव हि परीक्षापदार्थः । कथमेतत्संपत्स्यते इत्यत आह—सोदाहरणमिति ॥

शब्दस्वरूपलक्षणः प्रथमनिरस्यो दोष इत्याशयेन प्रागुद्दिष्टस्यासाधोर्लक्षणमाह—

शब्दशास्त्रविरुद्धं यत्तदसाधु प्रचक्षते ।

यथा—

‘भूरिभारभराक्रान्त बाधति स्कन्ध एष ते ।
तथा न बाधते स्कन्धो यथा बाधति बाधते ॥ १ ॥’

अत्र बाधतेरात्मनेपदित्वाद् ‘बाधते’ इति स्यात्, न पुनर् ‘बाधति’ इति ॥

शब्देति । शब्दाः शिष्यन्ते प्रकृतिप्रत्ययविभागपरिकल्पनया ज्ञाप्यन्ते येन तच्छब्दशास्त्रं त्रिमुनिव्याकरणं तेन विरुद्धं तदाम्नातप्रातिस्विकविशेषपरित्यक्तमतो न देशीयपदानामसाधुत्बम् । तथा च प्राच्यैः—‘नाथ ते कुचयुगं पत्रावृतं मा कृथाः’ इति अन्यकारकवैयर्थ्यमिति, ‘सलीलपाणिद्वयलोलनालमानर्तिताताम्रदलं दधन्तीम्’ इति च तादृशमेवोदाहृतम् । अत्र केचिदाहुः—‘बाधतिधातुं संस्कारप्रच्यावनेन