027

अत्र पञ्चमवर्णस्य लघोः स्थाने गुरोः करणाच्छन्दोभङ्गः ॥

भग्नच्छन्द इति । वाचां श्रव्योऽवच्छेदश्छन्दस्तस्यैवोपमानयुक्तादयस्तेनैव गुरुलघुनिवेशक्रमेण श्रव्यता भवतीत्याशयात् । तस्य विपर्यासश्छन्दोभङ्गो व्यक्त एव वैरस्यहेतुः प्राहुरिति । पञ्चोदाहरणत्वावच्छेदविपर्यासत्वे च भग्नवृत्तव्यवहारादिदमेव निमित्तमस्यावधार्यत इत्यर्थः । पञ्चेति । पञ्चजनाः पुरुषास्ते देवपितृगन्धर्वराक्षसासुरभेदात्पञ्च । अथवा निषादपञ्चमब्राह्मणादिचतुष्टयभेदात् । तमेवात्मानं ब्रह्मापरपर्यायं विज्ञाय श्रवणमनननिदिध्यासनैरुपास्य प्रज्ञां प्रकृष्टं ज्ञानं साक्षात्कुर्वीत ॥ अत्र पञ्चमवर्णस्येति । ‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । षष्ठं गुरुं विजानीयाच्छेषास्त्वनियता मताः ॥’ इत्यनुष्टुप्छन्दसो लक्षणम् ॥

अस्थाने विरतिर्यस्य तत्तु भग्नयतीष्यते ॥ २७ ॥

यथा—

‘ब्रह्मेन्द्रोपेन्द्रादिगीर्वाणवन्द्यो भक्तानां भूयाच्छ्रिये चन्द्रचूडः ।
स्त्रीणां संगीतं समाकर्णयन्केतूदस्ताम्भोदं सदध्यास्त ईशः ॥ ३९ ॥’

अत्र चतुर्थस्थाने यतौ कर्तव्यायां तदन्यत्र यतिकरणाद्भग्नयतीदम् ॥

अस्थान इति । श्रव्यः पठिति विच्छेदो यतिर्विच्छिद्य विच्छिद्य पठ्यमाना भारती स्वदते । श्रव्यतोपलक्षणार्थं च द्विमुनिवेदादिसंज्ञया तत्र तत्र विविच्यते । तथा चास्ति कश्चिद्विशेषो येन क्रियमाणापि विरतिर्न सौभाग्यपदं पुष्यति । स च विशेषो नाम भागभेदोऽस्वरसंधिकृतश्च प्रायेण एतेषां स्वभावविशेषादेव स्थाने क्रियमाणापि विरतिरन्यत्रैव परं प्रकाशते । न तत्र कथंचन सौभाग्यमुन्मीलयति । स्थानपरिभाषया व्यावर्तितत्वात् । तदिदमुक्तम्—अस्थान इति । वामनोऽप्याह—‘विरसविरामं कष्टम्’ इति । सदो गृहरूपा सभा केतूदस्ताम्भोदं ध्वजदण्डोत्क्षिप्तजलधरमित्युच्चैस्त्वम्। ‘वेदच्छेदा शालिनी मोऽथ तौ गौ’ इत्युपलक्षणं श्रव्यरतेः । अत्र द्वितीयपादे धातुभागभेदः शेषपादत्रये नामभागभेदाः । न चात्र स्वरसंधानमस्तीति ॥

क्रियापदविहीनं यदशरीरं तदुच्यते ।

यथा—

‘सेलसुआरुद्धद्धं मुद्धाणाबद्धभुद्धससिलेहम् ।
सीसपरिट्टिअगङ्गं संज्झापणअं पमहणाहम् ॥ ४० ॥’