005 बाधते इति बाधतिबाधस्तस्य संबोधनं बाधतिबाधेति । ते तव । वचनमिति शेषः’ इति, तदसत् । नेयार्थत्वप्रसंङ्गात् । अन्ये तु ‘बाधतिर्बाधते यथा’ इति पठन्ति । इदं तत्त्वम् । विद्यमानस्यार्थवत्त्वस्याविवक्षायां गवित्ययमाहेत्यादाविव प्रातिपदिकसंज्ञा न प्रवर्तते ॥

कविभिर्न प्रयुक्तं यदप्रयुक्तं तदुच्यते ॥ ७ ॥

यथा—

‘कामचीकमथाः केऽमी त्वामजिह्वायकीयिषन् ।
स सस्ति किं वचन्तीमे कम्बः शम्बं घरिष्यति ॥ २ ॥’

अत्र ‘अचीकमथाः', ‘अजिह्वायकीयिषन्', ‘सस्ति', ‘वचन्ति', 'घरिष्यति', ‘कम्बः', ‘शम्बम्’ इति शब्दानुशासनसिद्धान्यपि कविभिर्न प्रयुज्यन्ते ॥

कविभिरिति । अस्ति हि किंचित्पदं यत्राप्रयोज्यत्वेनैव हेयता । यद्येवं लोके प्रयुज्यमानस्य साधुतैव प्रसक्ता इत्यत उक्तम्—कविभिरिति । काव्ये यस्याप्रयोज्यत्वमेव दुष्टत्वबीजं तदित्यर्थः । तथाभूता च पदजातिरलंकारकारसमयादवसीयते । तथा चैकेन पुंदैवतशब्दोऽपरेण चीर्णशब्द उदाहृतः । एवमन्यदप्यप्रयुक्तमित्याशयवान्किंचिदुदाहरति—कामचीकमथा इति । उदाहरणत्वान्नैकोऽत्र श्लोको गवेष्यः । एकपदमात्रप्रयोगस्तु त्याज्यः समयविरोधाभावादित्याराध्याः । ‘अचीकमथाः’ इति कमेर्णिङन्तस्य लुङि चङि द्विर्वचनसन्वद्भावदीर्घत्वह्नस्वत्वणिलोपेषु रूपम् । कां नायिकां कामितवानसीत्यर्थः । अमी च के । त्वामात्मनो ह्वायकमेषितुमिष्टवन्तः । ह्वायकशब्दात् क्यच् । ततः सन् । ततो लङि अजिह्वायकीयिषन्निति रूपम् । स कश्चित् सस्ति स्वपिति । ‘पस सस्ति स्वप्ने’ इति धातो रूपम् । कम्बः शम्बमिति । कंशंशब्दौ जलवाचकौ ताभ्याम् । ‘कंशंभ्यां वभयुस्तितुतयसः’ इति मत्वर्थीयो वप्रत्ययः । तत्राद्येन जलधरो जलाशयं सेक्ष्यतीत्यर्थः । ‘शम्बः कम्बन्’ इति क्वचित्पठ्यते । तत्र कल्याणवान् कपालिनं सेक्ष्यतीत्यर्थो बोद्धव्यः । ‘घृ सेचने’ इत्यस्य धातोर्घरिष्यतीति रूपम् । स हि धातुः ‘घृतघृणाघर्मेभ्यो नान्यत्र युज्यते’ इति पूर्वाचार्याः । कविभिरित्यनेनासाधुशङ्का व्यावर्तितेत्याह—शब्दानुशासनसिद्धान्यपीति ॥