030

अत्र पूर्वार्धस्य मृदुबन्धत्वादुत्तरार्धस्य च गाढबन्धत्वात्समबन्धेषु विषममिति विषमो नाम शब्दप्रधानः समताविपर्ययो दोषः ॥

भवेदिति । स एव संदर्भो मृदुमध्यकठोरवर्णनिर्व्यूढास्तिस्त्रो बन्धजातयस्तत्रैकरूपे वाक्यार्थे एकैव जातिरुपादेयेति तद्विपर्यासो वैराग्यहेतुरेव । उत्छलन्तः शीकरा यस्मात्तथाच्छाच्छमत्यच्छम् । द्वयमपि निर्झराम्भोविशेषणम् । मलयमारुतस्योद्दीपनविभावभूतस्य वर्णमात्रवैरूप्यमस्येत्याशयवानाह—अत्र पूर्वार्धस्येति । शब्दप्रधानतामस्य विवृणोति—समबन्धेष्विति ॥

सौकुमार्यविपर्यासात्कठोर उपजायते ॥ ३२ ॥

यथा—

‘असितर्तितुगद्रिच्छित्स्वः क्षितांपतिरद्विदृक् ।
अमिद्भिः शुभ्रदृग्दृष्टैर्द्विषो जेघ्नीयिषीष्ट वः ॥ ४३ ॥’

अत्रातिकठोरत्वादसौकुमार्यं सुप्रतीतमेव ॥

सौकुमार्यविपर्यासादिति । अकठोराक्षरप्रायताबन्धस्य सुकुमारत्वं तद्विपर्थये कठोरता श्रुतिकटुत्वं भवति । असिततींति । ‘ऋ गतौ’ इति धात्वनुसारादृतिर्वर्त्म । असिता कृष्णा ऋतिर्वर्त्म यस्य कृष्णवर्त्मा वह्निस्तस्य तुगपत्यम् । अद्रिच्छिदिति क्रौञ्चदारणत्वात् । स्वर्गे क्षियन्ति निवसन्ति ये देवास्तेषां पतिः सेनानीत्वात् । अद्विदृग्द्वादशलोचनत्वात् । स एवंभूतो भगवान् कुमारोऽमिद्भिरस्निग्धै रूक्षैः शुभ्रदृग्दृष्टैर्धवलाक्षिविलोकितैः सक्रोधनिभालने तारकाभागस्योर्ध्वतया नयनात्तथाभावो जातिर्वो युष्माकं द्विषः शत्रूञ्जेघ्नीयिषीष्ट । अत्यर्थं पुनः पुनर्वा वध्यादि- त्यर्थः । हन्तेर्यङि घ्नीभावे आशीर्लिङि रूपम् । स्वतन्त्रस्य पदस्य श्रुतिकटुता पददोषः । इह तु पदानामतथाभावे र्ति द्रि च्छि इत्यादीनां वर्णानां परस्परसंनिधाने घटनैव कठोरेत्याह—अत्रातिकठोरत्वादिति ॥

या तु कान्तिप्रसादार्थव्यक्तीनामन्यथा गतिः ।
अर्थप्रधानः प्रोक्तः स वाक्ये गुणविपर्ययः ॥ ३३ ॥
अप्रसन्नं भवेद्वाक्यं प्रसादस्य विपर्ययात् ।