184
अतिक्रान्तेन कुत्रापि पदार्थं वर्णयोः क्वचित् ।
वाक्यार्थे वाक्ययोः क्वापि प्रकीर्णानां च दृश्यते ॥ ५५ ॥

अतीति । पदार्थं पदसिध्द्यर्थम्, एवं वाक्यार्थमिति ॥

तासु प्रक्रान्तघटना यथा—

‘स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम् ।
ऋषीञ्ज्योतिर्मयान्सप्त सस्मार स्मरशासनः ॥ ७१ ॥’

सेयं सप्तर्षीणामागमनस्य प्रक्रान्तस्यैव घटना ॥

सेयं सप्तर्षीणामिति । गौरीपरिणयप्रापकतया प्रकरणसंगतसप्तर्षिवृत्तान्तः ॥

अप्रक्रान्तघटना यथा—

‘अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
निषादस्य च संवादमृषेः संवरणस्य च ॥ ७२ ॥’

सेयमप्रक्रान्तस्य निषादसंवरणसंवादस्य घटनादप्रक्रान्तघटना ॥

इयमप्रक्रान्तस्येति । संवरणनिषादसंवादस्य पूर्वापरप्रकरणानुपयोगेऽपीतिहासरूपेण संगतिः ॥

अतिक्रान्तघटना यथा—

‘तस्य चक्रुश्चमत्कारं व्यतीतसमया अपि ।
स्मितार्द्रमुकुलोद्भेदाः कदम्बवनराजयः ॥ ७३ ॥’

इयमतिक्रान्तस्यापि कदम्बवनराजीनामार्द्रमुकुलोद्भेदस्य विरहिमनश्चमत्कारकारिणो रामस्य स्मृतिद्वारेण घटनादतिक्रान्तघटना ॥

इयमतिक्रान्तस्यापीति । कदम्बकुसुमोद्भेदस्य प्रत्यक्षस्यैव विरहिजनतातङ्कदायित्वं संभवतीति कथमतीतस्य तद्भयस्येत्युक्तं ‘स्मृतिद्वारेण’ इति । संकल्पवशेन प्रत्यक्षायमाणस्येत्यर्थः । एवमनागतयोजनापि गुणादिना बोद्धव्या ॥

पदघटना यथा—

‘छिन्नेन पतता वह्नौ यन्मुखेन हठात्कृते ।
स्वेतिहेति हरेणोक्तेः स्वाहासीत्सैष रावणः ॥ ७४ ॥’