191
काकुस्वरपदच्छेदभेदाभिनयकान्तिभिः ।
पाठो योऽर्थविशेषाय पठितिः सेह षड्विधा ॥ ५६ ॥

सा काक्वा यथा—

‘यदि मे वल्लभा दूती तदाहमपि वल्लभा ।
यदि तस्याः प्रिया वाचस्तन्ममापि प्रिय प्रिया ॥ ७८ ॥’

अत्रैकया काक्वा विधिरन्यया निषेधः प्रतीयते ॥

काकुस्वरेति । किंचिदेकपरतया प्रवृत्तमुच्चारणमर्थान्तरविवक्षया यदन्यथा क्रियते सा पठितिः । अन्यथाकरणं च काकुप्रभृतिभिः षड्भिरिति । तत्र ‘भिन्नकण्ठध्वनिर्धीरैः काकुरित्यभिधीयते ।’ सा द्विधा—विधिकाकुः, निषेधकाकुश्च । तयोर्निषेधे परोच्चारणान्यथाकरणेन विधिपर्यवसायिनी विधिकाकुः । यथा—‘शल्यमपि स्खलदन्तः सोढुं शक्येत हालहलदिग्धम् । धीरैर्न पुनरकारणकुपितखलालीककटुवचनम् ॥’ एवं विधिपरोच्चारणान्यथाकरणेन निषेधव्यञ्जिका निषेधकाकुः । तामुदाहरति—यदीति । यदि दूती प्रिया तदाहमपि प्रियेत्यादि ऋजूक्त्या शठनायकविषया कृत्रिमा प्रीतिः प्रतीयते, काक्वा तु तवैव नाहं प्रियेतीर्ष्यारोषः ॥

स्वरेण यथा—

‘सुभ्रूस्त्वं कुपितेत्यपास्तमशनं त्यक्ता कथा योषितां दूरादेव मयोज्झिताः सुरभयः स्रग्गन्धधूपादयः ।
रागं रागिणि मुञ्च मय्यवनते दृष्टे प्रसीदाधुना सत्यं त्वद्विरहाद्भवन्ति दयिते सर्वा ममान्घा दिशः ॥ ७९ ॥’

अत्र दृष्टे इत्यत्र प्लुतस्वरकरणात्कुपितकान्ताप्रसादनपरमपीदं वाक्यमुत्कुपितदृष्टिप्रसादनतां प्रतिपद्यते ॥

स्वराः प्लुतादय उदात्तादयश्च । नामीषां वेद इव काव्ये भूयान्प्रयोग इति किंचिदुदाहरति—सुभ्रूस्त्वमिति । चरणतलाग्रपतिते मयि दृष्टे सति त्वं प्रसीदेति दीर्घमात्रोच्चारणे कुपितकान्ताप्रसादपरत्वं, यथोक्तप्लुतकरणे तु दूराह्वानादौ तदनुशासनात्कुपितदृष्टिसंबोधनवुद्धिरुपजायते । अशनादयो हि द्वयोः साधारणा