192 एवेति श्लेषोपादानमेवेति । एवं ह्रस्वस्य दीर्घकरणेन दीर्घस्य ह्रस्वकरणेनार्थान्तरप्रतीतिरवसेया । यथा—‘विश्वामित्रो विश्वानरः’ इति ऋषिराजर्षिविशेषौ प्रतीयेते तथा युवतीति संबोधनप्रतीतिः । एवमुदात्तादयोऽपि यथादर्शनमुत्प्रेक्षणीयाः ॥

पदच्छेदेन यथा—

‘सर्वक्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी ।
रामा रम्ये वनान्तेऽस्मिन्मया विरहिता त्वया ॥ ८० ॥’

अत्र मया विरहितेत्येतावति पदच्छेदे पुरूरवसस्त्वयेत्येतावति तु पर्वतस्य वाक्यभेदो भवति ॥

शृङ्खला भङ्गः परिवर्तकः चूर्णमिति चत्वारश्छेदाः । तत्र पूर्वापरवर्णानामन्योन्यसंकलनया स्थितिः शृङ्खला । यथा—‘कान्तारतरुतलासितमृगयुवरचितान्तरा-’ इति पठितिः, तदा प्रियासंभोगमणितहर्षितलुब्धकप्रचुरच्छन्नमध्येति प्रतीयते । सेयमन्योन्यं वर्णसंकलनया शृङ्खलेत्युच्यते । एकस्य शब्दस्य मध्ये विच्छेदेन द्वैधीकरणमात्रं भङ्गः । तमुदाहरति—सर्वेति । मया विरहितेत्येतावति समुदाये मद्वियोगवती त्वया दृष्टेत्यष्टमकामावस्थाविष्टस्य पुरूरवसः पर्वतविषयं प्रश्नवाक्यं भवति । यदा तु मयेति विच्छिद्य पूर्ववाक्यसंबन्धि क्रियते तदा त्वया विरहिता सती मया दृष्टेति पर्वतस्योत्तरवाक्यं संपद्यते । वर्णान्तरकल्पना परिवर्तः । यथा—‘कलिकामधुगर्हणा’ इति । अत्र यथाश्रुतवर्णपरिग्रहे—‘कलिकामधुनो गर्हणा निन्दा’ इति प्रतीयते, यदा तु ‘कलिकामधुग् अर्हणा’ इति वर्णान्तरकल्पनया छेदः, तदा पूजैव ‘कलौ कामधेनुः’ इति । पिण्डाक्षरविभागश्चूर्णम् । यथा—‘पश्य सलिलं पयोधेर्दूरसमुन्मुक्तशुक्तिमीनाङ्कान्तम्’ इति । अत्र यथाश्रुते दुःखेन रसनीयमुद्भ्रान्तशुक्तिकोषं मत्स्याङ्कितपर्यन्तमिति प्रतीयते, यदा तु दूरसमुन्मुक्तशुक्तिमीनाङ्कान्तमिति पिण्डचूर्णनेन च्छेदः, तदात्यन्तहर्षयुक्तेति त्यक्तशोकेति च संबोधनद्वयं कृष्णस्य प्रतीयते ॥

पदभेदेन यथा—

‘येन ध्वस्तमनोभवेन बलिजित्कायः पुराऽस्त्रीकृतो यो गङ्गां च दधेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः ।
यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः सोऽव्यादिष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः ॥ ८१ ॥’