197

भाषान्यथाकरणेन यथा—

‘किं तादेण नरेन्दसेहरसिहालीढग्गपादेण मे किं वा मे ससुरेण वासवसहासीहासणद्धासिणा ।
ते देसा गिरिणो अ ते वणमही स ज्जेअ मे वल्लहा कोसल्लातणअस्स जत्थ चलने वन्दामि णन्दामि अ ॥ ९० ॥’

अत्र यदि भाषान्तरेण पठ्यते तदैतच्छौरसेनीभाषया सीतावाक्यं संस्कृतभाषायां सुमन्त्रेण दशरथाय निवेदितम् । तद्यथा—

‘किं तातेन नरेन्द्रशेखरशिखालीढाग्रपादेन मे किं वा मे श्वशुरेण वासवसभासिंहासनाध्यासिना ।
ते देशा गिरयश्च ते वनमही सा चैव मे वल्लभा कौसल्यातनयस्य यत्र चरणौ वन्दामि नन्दामि च ॥ ९१ ॥’

सेयमेवंप्रकारा पठितिः ॥

भाषाभेदेन कथं स्त्रीपुंसवचनता गम्यत इत्यत आह—तदैतच्छौरसेनीति । विभागन्यूनतामाशङ्क्य यथोक्तप्रकारेण समाधानमभिसंधायाह—सेयमेवंप्रकार पठितिरिति ॥

विभिन्नार्थैकरूपाया या वृत्तिर्वर्णसंहतेः ।
अव्यपेतव्यपेतात्मा यमकं तन्निगद्यते ॥ ५८ ॥

अथावृत्त्युपजीविनोऽलंकारा लक्षयितव्याः । तेषां समग्रकाव्यपर्यन्तावृत्तिसमाश्रयणाद्यमकं प्रधानमित्याशयेनाह—विभिन्नेति । विभिन्नार्थेत्यर्थाभेदव्यतिरेकपरम् । तेन द्वयोरेकस्य वा निरर्थकत्वेऽपि यमकमुपगृहीतं भवति । एवमपि ‘सरो रसः’ इत्यादावतिप्रसङ्ग इत्यत उक्तम्—एकरूपेति । रूपमानुपूर्वी, विभिन्नार्था चासावेकरूपा चेति विग्रहः । विविधधवेत्यादावेकवर्णावृत्तावप्यावृत्तिसमुदाय एव यमकक्रममुल्लिखतीत्यभिसंधाय संहतेरित्युक्तम् । विभिन्नार्थैकरूपाया वर्णसंहतेर्या आवृत्तिः सा यमकमिति व्यवहितेनान्वयः ॥

आवृत्तिर्द्विधा—अनावृत्ता व्यवहिताव्यवहिता चेति ।