208

आद्यन्तयमकमादिमध्यान्तयमकं चेहास्थानयमकत्वप्रसङ्गान्न संगच्छते । आदिमध्यान्तयमकानि तु प्रथममेवोदाहृतानि ॥

शुचिना कान्तेन । मृदुना कोमलेन । उदितं भाषितम् । लघुना तरलेन । गुरुणा स्तनजघनभारालसेन । व्याजृम्भितेन प्रकटीभूतविस्तारप्रकर्षेण । अत्र तेन तेनेति मध्यान्तयोरावृत्तम् । इहेत्यावृत्त्येकरूपतायामेकस्यादावितरस्यान्ते वर्तमानमेकरूपसंधिपातित्वादस्थानयमकमेव भवति । एवसादिमध्यान्तयमकमपि नात्र संगच्छते तर्हि संधिविनाकृतमुदाह्रियतामित्यत आह—आदिमध्यान्तेति ॥

आवृत्त्येकरूपतायामावृत्त्याधिक्ये च मध्ययमकं यथा—

‘सभासु राजन्नसुराहतैर्मुखैर्महीसुराणां वसुराजितैः स्तुताः ।
न भासुरा यान्ति सुरान्न ते गुणाः प्रजासु रागात्मसु राशितां गताः १२३’

तदेतत्सर्वमपि व्यवहितावृत्तेर्व्यपेतयमकं भवति ॥

आवृत्त्याधिक्य इति । एकैकस्मिन्पादे तृतीयाद्यावृत्त्या पूर्वमाधिक्यं पादान्तरावृत्तिसरूपतया सारूप्यं चोक्तम् । इह तु सरूपावृत्त्यैवाधिक्यं निरूप्यत इति संकरप्रकारोपलक्षणमिदम् । सभासु जनसमवायेषु । असुराहतैर्मदिरापानपराभूतैः । महीसुराणां ब्राह्मणानाम् । वसुना तेजसा राजितैः शोभितैः । भासुरा दीप्ताः । सुरान् देवान् । न न यान्ति निषेधद्वयेन यान्त्येवेत्यर्थः । रागोऽनुरागस्तत्प्रघान आत्मा यासां तासु प्रजासु राशितां पुञ्जतां गताः । व्यपेतमुपसंहरति—तदेतदिति ॥

नादौ न मध्ये नान्ते यत्संधौ वा यत्प्रकाशते ।
अव्यपेतव्यपेतं तदस्थानयमकं विदुः ॥ ६३ ॥
पादे श्लोके च तत्प्रायः पादसंधौ च बध्यते ।
स्वभेदे चान्यभेदे च स्थूलं सूक्ष्मं च सूरिभिः ॥ ६४ ॥

क्रमप्राप्तमस्थानयमकं लक्षयति—नादाविति । आदावेवेत्यादिनियमेन स्थानयमकमुक्तं तदभावे त्वस्थानयमकं भवति । तत्किमाद्यादिस्थानमिदं नाश्रयत एव । नेत्याह—संधौ वेति । संधौ पादसंदंशे एकस्यादिपरस्यान्त इति । नेदं स्थानयमकं तद्धि प्रतिपादं स्थाननियमेन निरूप्यत इत्युक्तप्रायम् । अव्यपेत-