221 नाभिरातिभिः पक्षिविशेषैर्भिश्रितं करम्बितम् । न च्युतं धाम तेजो यस्य तम् । प्रतीताः प्रत्यागताः शिखिनो मयूरास्तैश्चरितवनं भ्रान्ततीरकाननं समुद्रं पश्येति वाक्यान्तरवर्तिक्रियया संबन्ध इति द्वितीयः श्लोकार्थः ॥

अव्यपेतभेदे आद्यस्य पुनरभ्यासो यथा—

‘समान यासमानया स मानया समानया ।
समानयासमानया समानयासमानया ॥ १५१ ॥’

समानेति । हे समान सखे, यासमानया अविनयवतीनां धुरि गणनीयया अनया समानया समानो यासः प्रयत्नो मान ईर्ष्यारोषस्तौ समानौ यस्यास्तया, तथा समानया चित्तानुस्भृतिसारूप्यं भजमानया पूजासिहतया असमानया अनुपमया स त्वं मा मां समानय संगमयेति मन्मथोन्मादाविष्टस्य कस्यचिद्वयस्यस्य प्रार्थना ॥

एकरूपेण वाक्येन द्वयोर्भणनमर्थयोः ।
तन्त्रेण यत्स शब्दज्ञैः श्लेष इत्यभिशब्दितः ॥ ६८ ॥

बन्धावृत्तिसामान्याद्यमकानन्तरं श्लेषं लक्षयति—एकरूपेणेति । अर्थभेदेन शब्दा भिद्यन्त इति नये कथमेकेन वाक्येन द्वयोरुक्तिरित्यत आह—तन्त्रेणेति । श्लेषो हि संभेदलक्षणः । स चात्र भिन्नानामपि शब्दानामुच्चारणसाम्येन प्रवर्तते । अनेकसंबन्धानामैकरूप्येण वर्तनं तन्त्रमित्युच्यते ।

प्रकृतिप्रत्ययोत्थौ द्वौ विभक्तिवचनाश्रयौ ।
पदभाषोद्भवौ चेति शब्दश्लेषा भवन्ति षट् ॥ ६९ ॥

द्वयोरिति संख्या न विवक्षिता, त्रिप्रभृतीनामपि श्लेषसंभवात् । विभागवाक्ये विभक्तीनां साक्षादुपादानात्प्रत्यपदं तदन्यपरं, विशेषशोभाकरत्वं च विशेषोपादानप्रयोजनम् ॥

तेषु प्रकृतिश्लेषो यथा—

‘आत्मनश्च परेषां च प्रतापस्तव कीर्तिनुत् ।
भयकृद्भूपते बाहुर्द्विषां च सुहृदां च ते ॥ १५२ ॥’

अत्र कीर्तिनुदित्यत्र नौति-नुदत्योर्भयकृदित्यत्र करोति-कृन्तत्योः प्रकृत्योः क्विपि तुल्यं रूपमिति प्रकृतिश्लेषोऽयम् ॥