226
‘अलंकारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः ।
अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो- र्विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनरमी ॥’

इति वर्णश्लेषः काश्मीरकैः पृथगुदाहृतः । अत आह—वर्णश्लेषोऽपीति । अवयवाभेदे समुदायसंभवादवयवभेदे च समुदायभेदध्रौव्यात्पदश्लेषव्यवस्थितौ तत्रैवास्यान्तर्भावो युक्त इति भावः । अलमत्यर्थं पाता रक्षिता, आशानां निबन्धनं मनोरथसफलीकरणबीजं, आशानां दिशां संश्लेषस्थानम्, चामरमरुद्भूमिः स्वर्लोकोऽमराणामिन्द्रादीनां भूमिरमरावत्यादिर्मरुतां च विवहादीनां भूमिर्वैमानिकपथश्चामरमरुद्भूमिश्चामरमरुतामाश्रयश्च । कथमत्र वर्णश्लेष इत्यत आह—अत्रेत्यादि । ‘पतिचण्डिभ्यामालञ्’ इति पतेरालञ्प्रत्यये पातालमिति रूपसिद्धावाकार एव मध्यवर्तिवर्णः, तत्रैव पुनरेकदेशप्रतिसंधाने पातालमित्याकारश्च प्रतीयते । अत्र च ‘एकः पूर्वपरयोः’ इति वचनादाकार एव श्रूयते तेनोत्तरः पौरस्त्येन संभिन्नः । एवं चकारस्योत्तरसंभेदो व्याख्येयः ॥

भाषाश्लेषो यथा—

‘कुरु लालसभूलेहे महिमोहहरे तुहारिविच्छिन्ने ।
हरिणारिसारदेहे वरे वरं हर उमे भावम् ॥ १६२ ॥’

अत्र—

‘ध्यानानीतां च रुद्राणीं कान्तां च पुरतः स्थिताम् ।
रणेच्छुः कश्चिदानर्च दिव्यप्राकृतया गिरा ॥ १६३ ॥’

तत्र रुद्राणीपक्षे—हे उमे, हरे भवे वरं श्रेष्ठ भावं कुरु । किंभूते । लालसभूलेहे लालसभूः कामस्तं लेढि यस्तस्मिन् । तथा महिम्ना प्रभावेणोहं वितर्कमपहरति यस्तस्मिन्महिमोहहरे । महेश्वरसंनिधौ हि सर्वज्ञानाभिभव इति श्रूयते । अतएव तोहन्ति अर्दयन्ति तुहा अरयस्तैर्विच्छिन्ने विरहिते । अपरमप्यरीणां विच्छेदकारणमाह—हरिणारिसारदेहे हरिणारिः सिंहस्तस्य सारो बलं स देहे यस्य तस्मिन् । वरे परि-