227 णेतरीति । उमाया एव वा इमानि संबोधनविशेषणानि । कान्तापक्षे तु—हे कान्ते, तव योऽयं हरिनार्याः श्रियाः सार उत्कृष्टो देहस्तत्र यद्वरं श्रेष्ठं विलोचनाननस्तनजघनादि तन्मे भावमभिलाषं हरतु । कामान्पूरयत्वित्यर्थः । किंभूते देहे । कुटिलालसभ्रूलेखे महिमोहहरे गृहे हारिणि विच्छिन्ने च तनुमध्यत्वादिभिरिति ॥

दिव्या संस्कृता । प्राकृता महाराष्ट्री । भावश्चेतसो लयः । लालस इच्छा तस्माद्भवतीति लालसभूः संकल्पयोनित्वात्कामस्तं लेढीति कर्मण्यण् । ऊहस्तर्कः संशयपृष्ठभावी विपरीतप्रत्ययविशेषः । कथं तं हरतीत्यत आह—महेश्वरसंनिधाविति । संनिधिः साक्षात्काररूपः । सर्वज्ञानानि संस्कारप्रवर्तकानि । ‘तुहिर अर्दने’ तोहतीति इगुपधत्वात्कप्रत्यये तुहा अरयः । ते द्विधा-आन्तराः, बाह्याश्च । आन्तरा मदमानादयः षट्, बाह्याः क्षेत्रापहारकादयः । तत्र पूर्वावच्छेदे च हरिणारिसारदेहत्वं हेतुरुक्तः । हरिणारिसार इव सारो यस्येत्युत्तरपदलोपे हरिणारिसारो देहो यस्येति विग्रहवाक्यमवसेयम् । यथाश्रुत्यर्थकथनमात्रमुमाया एवेत्यत्र लालसभूलेह इत्यच्प्रत्यये व्याख्येयम् । तुशब्दस्तवार्थे । ‘तुतुवतुह्मतुब्भतुज्झा डसः’ इति सूत्रात् । हरिनारी लक्ष्मीस्तस्याः सकाशात् सारः प्रकर्षशाली देहः । ‘पञ्चमी’ इति योगविभागात्समासः । कुरुलाश्चूर्णकुन्तलाः । महीशब्देन भूगोलवर्तिनः प्राणिनोऽभिमतास्तेषां मोहगृह इति व्याख्येयम् । विच्छिन्नो विभक्तावयवः ॥

यथा वा—

रुचिरञ्जितारिहेतिं जननमितं सामकायमकलङ्कम् ।
सन्तममितं च मानय कमलासनमभिविराजन्तम् ॥ १६४ ॥’
‘भूतसंस्कृतभाषाभ्यां द्विर्नमस्कृत्य माधवम् ।
जगाम समरं कोऽपि कस्य श्रेयसि तृप्तयः ॥ १६५ ॥’

तत्र भूतभाषायां यथा—

रुचिरं मनोहरं जितारिहेतिं भग्नसपत्नायुधं जनैर्नमितं श्यामकाय-