228 मकलङं्क शान्तं शान्तरूपं अमितमनन्तम् । चः समुच्चये । कमलासनं ब्रह्माणमभिलक्षीकृत्य विराजन्तं शोभमानं मानय पूजयेति ॥

संस्कृतभाषायां यथा—

रुचिभी रञ्जिता आरिहेतयश्चक्रदीप्तयो येन तम्, जननैर्दशभिरवतारैर्भितं परिच्छिन्नम्, सामानि कायति गायति यः स सामकायस्तम्, न विद्यते कला यस्य सोऽकलस्तम्, कं सन्तं ब्रह्माणं अं विष्णुमितं गतम्, अभिविराजं गरुत्मन्तमभि तं प्रसिद्धं कमलासनं श्रिया संसक्तं मा मां नय प्रापयेति ॥

एवं पैशाचादिभिरपि संस्कृतस्य प्राकृतादेश्च परस्परसंभेदनाच्छ्लेषो गवेषणीय इत्याशयवानाह—यथा वेति । अकलङ्कं दोषरहितं मानयेति धात्वर्थस्य भाव्यत्वेनान्वयात्पूजां कुर्वित्यर्थः । ब्रह्माणमभिलक्षीकृत्येति । रुचय आत्मीयाः । अरा विद्यन्ते यस्य तदरि चक्रम् । हेतयः किरणाः । जननं जन्म । सामानि कायति कीर्तयतीति ‘अपवादविषये क्वचिदुत्सर्गः प्रवर्तते’ इति कर्मण्यम् । कला अवयवाः प्रसिद्धाः । वीनां पक्षिणां राजा गरुडस्तभभि इतं गतम् । कमला लक्ष्मीस्तस्या आसनमधिष्ठानं मा मां नयेति ॥

आवृत्तिर्या तु वर्णानां नातिदूरान्तरस्थिता ।
अलंकारः स विद्वद्भिरनुप्रासः प्रदर्श्यते ॥ ७० ॥

अनुद्भटावृत्तेश्चित्रादुद्भटावृत्तिमनुप्रासं पूर्वं लक्षयति—आवृत्तिरिति । वर्णानामिति वचनमतन्त्रम् । ‘सारः सारस्वती मूर्त्तिः’ इत्यादावेकवर्णावृत्तेरप्यनुप्रासत्वात् । तेन यमकव्यतिरिक्ता वर्णावृत्तिरनुप्रास इति लक्षणमुक्तं भवति । न च श्लेषेऽतिप्रसङ्गः । तन्त्राभ्यां विशेषात् । पूर्वजातिप्रतिबिम्बनेन बन्धच्छायार्थकतयानुप्रासोऽलंकारपदवीमध्यास्ते । नच निर्निमित्तमेव प्रतिबिम्बनमत आह—नातिदूरेति । अस्ति कश्चिदुञ्चारणस्य ज्ञानस्य वा विशेषो यः शीघ्रमेव संस्कारमुद्बोधयतीति तद्वती वर्णावृत्तिरभिप्रेता । अत एव प्राचीनवर्णजात्यनुगतः सहृदयावर्जकतया प्रकृष्टश्च वर्णानामनुप्रास इति काश्मीरिका निरुक्तिः ॥