148 विज्जूमणोहरी’ इत्याराध्याः । अन्ये तु लपतीत्यर्थमाहुः । एवं च कलशब्दः पुष्यतीति । याम्यो दक्षिणः । निवाअर निर्वञ्चको वारकशून्यो वा इदावारक इति । अला आगतः । यदिह मानो न क्रियेत ज्योत्स्नादयो मनोमुदमेवाधास्यन्तीति प्ररोचना । यदा तु ‘मनोनुदे’ इति पाठोऽपिशब्देन नायकसाधारणमुत्कण्ठाकारित्वमुक्तं चन्द्रज्योत्स्नादीनामिति । अतो नकजनकजन्नार्थो नार्थ ईर्ष्यारोषलक्षणेन प्रतिकूलभावावलम्बिना मानेन, तस्मात्प्रियमेव प्रतिजाहुदा यामः, यदामनन्ति स्वयं वा तत्र गमनमिति ॥

क्रीडागोष्ठीविनोदाद्यर्थानन्यगामिन्यसाधारणी यथा—

‘भीष्मप्रोक्तानि वाक्यानि विद्वद्वक्क्त्रेषु शेरते ।
गोसे तिविञ्छिरिञ्छोली तल्लं तूहे विवल्लिदा ॥ ११ ॥’

अत्र पूर्वार्धपदानि संस्कृत एव, उत्तरार्धपदानि प्राकृत एव । सेयमसाधारण्यनन्यगामिनी च जातिरुच्यते । भाषान्तराणां पुनरसाधारण्यं नास्ति ॥

क्रीडेति । काव्यसमस्या क्रीडा, उक्तपूर्वा गोष्ठी, तत्र विनोदो मनोनुकूलेन समयातिवाहनम् । आदिपदं पूर्ववत् । ननु मा भूत्प्रकृतिभावेन भाषान्तरसंभेदः संस्कारसंपाते तु भविष्यति, तथा च कथं साधारणीतो भिद्यत इत्यत आह—असाधारणी चेति । गोसे प्रभाते, तविञ्छिरिञ्छोली कमलरजःपङ्क्तिः । तल्लमल्पसरः । तूहं तीर्थम् । विवल्लिदा प्रसारिता । नात्र पूर्वोत्तरार्धयोरैकमत्यमुदाहरणत्वात् । आराध्यास्तु यथा सरस्तीरे कमलरजःपङ्क्तिः प्रसृता शोभते तथा विद्वद्वक्त्रेषु भीष्मवाक्यानीत्युपमाकल्पनया कथंचिदेकवाक्यतामाहुः । अत्र पूर्वार्धपदानीति । न भीष्मादयोऽनभिधानादिति भाषान्तरस्थानिभावस्य प्रतिषेधात् । एवं वाचस्पतिविशिष्टरसवशप्रचेतसपोतादयो द्रष्टव्याः । प्राकृत एवेति । महाराष्ट्रदेशीयत्वाद्देशीपदानां च स्थानिभावासंभवात् । भाषान्तराणां पुनरिति । सिद्धिर्महाराष्ट्रीतः, सिद्धिः शौरसेनीतः, इत्युपक्रम्यानुशासनात्तद्भवरूपतैव स्फुटा । तत्समानां तु साधारण्यमेवेति ॥

अपभ्रष्टा यथा—

‘मुद्धे गहणअं गेण्हउ तं धरि मुद्दं णिए हत्थे ।
णिच्छउ सुन्दरि तुह उवरि मम सुरअप्पहा अत्थि ॥ १२ ॥’