260 समुप्फुन्दन्तो समभिक्रामन् । ननु जसेण धीरेण गरुइआइ वि इ रवेण अ इति यदपञ्चके विभक्त्या तदुत्तरयोश्चकारद्वयेन च व्यवधानात्कथमव्यवहितभेद उदाह्रियत इत्याह—अत्रेति । अव्ययानामित्युपलक्षणम् । द्योतकत्वादिति विभक्तिसाधारणो हेतुः । पञ्चकप्रातिपदिकार्थत्वपक्षे विक्षक्तिर्द्योतिकैव । शाकल्योऽपि अव्ययवाचकत्ववादी । सोऽप्यसत्त्वार्थानामिवादीनां स्वातन्त्र्येण वाचकत्वं न मन्यते । यतो न पृथक्पदत्वमनुशिष्टवान् । तथा च द्योतकानां परशक्तिसहकारित्वेन तदनुप्रवेशात्स्वाङ्गमव्यवधायकमिति न्यायात् । ननु किमत्र क्लिष्टकल्पनया । अस्त्यव्यवहितोदाहरणमप्यन्यदपीति शङ्कते—यद्येवमिति । अत्र पूर्वार्धवर्तिद्वयमुदाहरणमुत्तरार्धवर्तिनो द्वयस्य पूर्वतुल्यत्वात् । परिहरति—अस्तीति । अनन्वयमात्रमत्रोदाहरणम् । तत्र चावश्यभेदकल्पनया विशेषणविशेष्यभावी वाच्यस्तथा च गौणी नाम द्विरुक्तिः स्यादिति संकरशङ्कनायोदाहृतमिति सिद्धान्ततात्पर्यसंक्षेपः ॥

समस्तो यथा—

‘अपहस्तितान्यकिसलय किसलयशोभं विलोकयाशोकम् ।
सखि विजिता परसुमनःसुमनः सुभग च मधुतिलकम् ॥ २४२ ॥’

अत्र ‘किसलय किसलय’ इति, ‘सुमनः सुमनः’ इति च समस्तानामेवाव्यधानादयं लाटीयोऽनुप्रासोऽव्यवहितसमस्तः पूर्वः पुनरव्यवहितव्यस्त इत्युच्यते ॥

पूर्वः पुनरिति । समस्तानन्तरं व्यस्तविवरणं प्रतिपत्तिसौकर्यार्थम् ॥

उभयस्तु द्विधा—प्रथमः समस्तोपरो व्यस्तः । द्वितीयो व्यस्तोऽपरः समस्त इति च । तयोः प्रथमो यथा—

‘जितलाटाङ्गनावक्रं वक्रं तस्या मृगीदृशः ।
क्स्य न क्षोभजनकं जनकं पुष्पधन्वनः ॥ २५३ ॥’

तदिदं लक्षणेनैव व्याख्यातम् ॥

द्वितीयो यथा—

‘नलिनी नलिनीनाथकरसंनतिसंगमात् ।
विकचा विकचास्यानां कान्तानां हरति श्रियम् ॥ २४४ ॥’