267

ननु नानानना विविधाकारवदना गणा ऊनेन हीनेन नुन्नो जितो ना न न पुरुषः । तथा नुन्न इनः प्रभुर्यस्य सोऽप्यात्मनि जीवति नाना पुरुषोऽपुरुष एव । यतो ननुन्नेनोऽजितप्रभुर्नुन्नोऽप्यनुन्न एव । तथा नुन्ननुन्नः जित इव क्लीबतया पराभूत इति । ‘प्रकारे गुणवचनस्य’ इति द्विरुक्तिः । तमपि यो नुदति स नानेना न निष्पापः बन्धच्छायार्पकान्यवर्णगुरुत्वोन्मेषमात्रप्रयोजकस्तकारो न वृत्तिशरीरान्तर्गत इति द्विव्यञ्जनता नाशङ्कनीया ॥

क्रमस्थसर्वव्यञ्जनं यथा—

‘कः खगौघाङचिच्छौजा झाञ्ज्ञोऽटौठीडडण्ढणः ।
तथोदधीन्पफर्बाभीर्मयोऽरिल्वाशिषां सहः ॥ २६३ ॥’

क्रमस्थेति । वर्णसमाम्राये येन क्रमेण कादयो मावसानाः पठितास्तेन क्रमेण व्यञ्जननिवेशः । कः खगौघस्तत्तत्प्रसिद्धावदानपक्षिसमूहस्तमञ्चतीति क्विनि संयोगान्तलोपे कृते च खगौघाङिति रूपम् । चितं संविदं छ्यति छिनत्तीति चिच्छं यदोजस्तन्नास्ति यस्यासावचिच्छौजाः । ‘झमु अदने’ अस्मात् क्विप् । ‘अनुनासिकस्य क्विझलोः ६।४।१६’ इत्युपधादीर्घः । ‘मो नो धातोः ८।२।६४’ इति नकार इति झान् परबलभक्षको ज्ञः पण्डितः । ‘स्तो श्चुना श्रुः ८।४।४०’ इति नकारस्य ञकाराः । अटाः सङ्ग्रामाङ्गणपर्यटनशीलाः सुभटास्तानोठते बाधत इति क्विप् । ‘उठ गतौ’ इति धातो रूपम् । तेषामीडीश्वरः । अडण्ढणोऽचपलः । डण्ढण इत्यव्युत्पन्नं चपलवाचि प्रातिपदिकम् । तथा अभीर्भयरहितः एवंविधः को नामायमुदधीन् पफर्ब पूरयामासेति प्रश्नः । उत्तरम्—अरीन् लुनन्ति या आशिषस्तासां सहः क्षमो मयो दैत्यराज इति ॥

छन्दोक्षरव्यञ्जनं यथा—

‘सरत्सुरारातिभयाय जाग्रतो जलत्यलं स्तोतृजनस्य जायताम् ।
स्मितं स्मरारेर्गिरिजास्यनीरजे समेतनेत्रत्रितयस्य भूतये ॥ २६४ ॥’

छन्दोक्षरेति । ‘म्यरस्तजभ्नगा लान्ताश्छन्दोविचितिवेदिभिः । दशैव वर्णा निर्णीताश्छन्दोरूपप्रसिद्धये ॥’ तन्मात्रव्यञ्जननिबद्धछन्दोक्षरव्यञ्जनम् । सुबोधमुदाहरणम् ॥