269

निस्तालव्यं यथा—

‘स्फुरत्कुण्डलरत्नौघमघवद्धनुकर्बुरः ।
मेघनादोऽथ सङ्ग्रामे प्रावृट्कालवदाबभौ ॥ २६८ ॥’

कुण्डलरत्नौघ एव मघवतो धनुस्तेन कर्बुरो मेघनादनामा राक्षसः । इचुयशास्तालव्याः ॥

निर्दन्त्यं यथा—

‘पाप्मापहारी रणकर्मशौण्डश्चण्डीशमिश्रो मम चक्रपाणिः ।
भूयाच्छ्रियापश्रमयेक्ष्यमाणो मोक्षाय मुख्यामरपूगपूज्यः ॥ २६९ ॥’

चण्डीशमिश्रः परमेश्वरेणैकशरीरतामापन्नः । मुख्यामरा ब्रह्मादयः । लृतुलसा दन्त्याः ॥

निरोष्ठ्यं यथा—

‘नयनानन्दजनने नक्षत्रगणशालिनि ।
अघने गगने दृष्टिरङ्गने दीयतां सकृत् ॥ २७० ॥’

अघन इति । शरत्कालशोभया दृश्यतमे । उपूपध्मानीया ओष्ठ्याः ॥

निर्मूर्धन्यं यथा—

‘शलभा इव धावन्तः सायकास्तस्य भूभुजः ।
निपेतुः सायकच्छिन्नास्तेन संयुगसीमनि ॥ २७१ ॥’

तेन कपिलेन राज्ञा । तस्य कोसलाधिपस्य प्रसेनजितः । ऋटुरषा मूर्धन्याः ॥

त्रिस्थानचित्रेषु निरोष्ठ्यदन्त्यं यथा—

‘जीयाज्जगज्ज्येष्ठगरिष्ठचारश्चक्रार्चिषा कृष्णकडारकायः ।
हरिर्हिरण्याक्षशरीरहारी खगेशगः श्रीश्रयणीयशय्यः ॥ २७२ ॥’

निरोष्ठ्यदन्त्यमिति । अनेनैव द्विकान्तरपरिहारेण लोष्टप्रस्तावो गवेषणीयः । तथोत्तरत्रापि ॥