272 तत्र रतिर्येषाम् । परा श्रेष्ठा गतिर्ज्ञानं येषां ते तथा । एवंविधाः कुरवः स्वद्विषां कुलमुरु विस्तीर्ण रुरुधुः । तदेव गुरु महत् दुधुवुः कम्पयामासुः ॥

चतुःस्वरेषु दीर्घस्वरं यथा—

‘आम्नायानामाहान्त्या वाग्गीतीरीतीः प्रीतीभीतीः ।
भोगो रोगो मोहो मोदो ध्येये वेच्छेत्क्षेमे देशे ॥ २८१ ॥’

आम्रायानां वेदानामन्त्या वागुपनिषत् सा हिताहितप्रतिपादनपरा किमाह । या गीतयस्ता ईतय उपसर्गाः । याः प्रीतयस्ता भीतयो भयानि । यो भोगः स रोगः । यो मोदो हर्षः स मोहः । न परमेवमाह । किंतु यावध्द्येये ध्यातव्ये क्षेमे क्लेशरहिते देशे विषये मोक्षलक्षणे इच्छेदिच्छां कुर्यादिति । वाशब्दः समुच्चये । अन्ये चकारमेव पठन्ति ॥

प्रतिव्यञ्जनविन्यस्तस्वरं यथा—

‘तापेनोग्रोऽस्तु देहे नो हेये विल्लोभिनिन्दिना ।
जायाग्रे हि गुणिप्रेष्ठे हितोक्षेपोऽमृतोक्षिणि ॥ २८२ ॥’

हेये हातव्ये वस्तुनि या विल्लाभः । ‘विदॢलाभे’ इति धात्वनुसारात् । तत्र ये लोभिनो लोभवन्तस्तन्निन्दनशीलेन तापेन तेजसार्थादुग्रश्चण्डरश्मिः स नः मम देहेऽस्तु । तेजस्वी भवानीति यावत् । किमित्येवमाशास्यत इत्यत आह—अमृतस्यन्दिनि कान्ताग्रे गुणिनां प्रियतमेऽक्षेपोऽविलम्ब एव हितोऽर्थतः समरस्य । ‘इति दत्वाशिषं कोऽपि स्वस्मै कार्मुककर्मणे । जगाम समरं कर्तुमरिलक्ष्मीस्वयंवरम् ॥’

तदेवापास्तसमस्तस्वरं यथा—

‘तपन ग्रस्तदहन हयवल्लभनन्दन ।
जयग्रह गणप्रष्ठ हतक्षप मतक्षण ॥ २८३ ॥’

ग्रस्तदहन अभिभूतपावक । हयवल्लभो रेवन्तः स तनयो यस्य । हतक्षप अपहृतरात्र । मतक्षण संमतोत्सव ॥

आकारचित्रेष्वष्टदलं यथा—

‘याश्रिता पावनतया यातनच्छिदनीचया ।
याचनीया धिया मायायामायासं स्तुता श्रिया ॥ २८४ ॥’