280
आहुरर्धभ्रमं नाम श्लोकार्धभ्रमणं यदि ।
तदिदं सर्वतोभद्रं सर्वतो भ्रमणं यदि ॥ ११० ॥

तयोरर्धभ्रमं यथा—

‘ससत्वरतिदे नित्यं सदरामर्षनाशिनि ।
त्वराधिककसन्नादे रमकत्वमकर्षति ॥ ३०९ ॥’

ससत्वेति । सदराः सभयाः । त्वराधिकानां कसन्नितस्ततः संचरन्नादो यत्र । अत एव वीरान्प्रति रमकत्वमकर्षति ॥

सर्वतोभद्रं यथा—

‘देवाकानिनि कावादे वाहिकास्वस्वकाहि वा ।
काकारेभभरेऽकाका निस्वभव्यव्यभस्वनि ॥ ३१० ॥’

‘कनी दीप्तौ’ । देवानाकनितुं शीलं यस्य । कावाद ईषद्वादो यत्र । कस्य मस्तकस्य सन्ना संगता आदा ग्रहणं यत्रेति वा । वाहिका पर्यायवहनम् । ‘पर्यायार्हणोत्पत्तिषु’ इति ण्वुच् । सैव स्वं वित्तभूता येषामेवंविधा ये स्वका आत्मपक्षीयास्तानाजिहीते इति विच् । कं मदजलमाकिरति इति काकारस्तादृश इभभरो हास्तिकं यत्र । हेऽकाकाः सात्त्विका इति संबोधनम् । काकाः सङ्ग्रामलोलुभा वा । क्वचित्कर्तर्यपि घञू । निःस्वा निरात्मानो भव्या आधेयगुणास्तानपि व्ययन्ति स्वबलेनोपबृंहयन्ति ये ते निस्वभव्यव्यास्तेषां भस्वनि भर्त्सनशीले । ‘भस भर्त्सने’ इत्यतः क्वनिप् ॥

बन्धचित्रेषु द्विचतुष्कचक्रबन्धो यथा—

‘जयदेव नरेन्द्रादे लम्बोदर विनायक ।
जगदेधन चन्द्राभालङ्घिदन्तविभायते ॥ ३११ ॥’
‘इह शिखरसंधिमालां बिभृयादर्धं समाश्रितैर्वर्णैः ।
द्विचतुष्कचक्रबन्धे नेमिविधौ चापरं भ्रमयेत् ॥ ३१२ ॥

जयद इत्यादि । नता इन्द्रादयो यस्मै स तथा । जगतामेधन वर्धन । चन्द्राभालङ्घिनी चन्द्रकान्तिविजयिनी दन्तप्रभाणामायतिर्यस्य स तथा ॥ न्यासमाह—इहेति । शिखरमालां संधिमालां च पूर्वार्धवर्णैः क्रमेण बिभृयात्पूरयेत् । नेमिविधौ चापरमुत्तरार्धं भ्रमयेत् ॥