154

अर्धसमच्छन्दसि विलम्बिता यथा—

‘विहितां प्रियया मनः प्रियामथ निश्चित्य गिरं गरीयसीम् ।
उपपत्तिमदूर्जिताश्रयं नृपमूचे वचनं वृकोदरः ॥ २० ॥’

उत्कलिकाप्रायगद्ये द्रुता मध्या च यथा—

‘व्यपगतघनपटलममलजलनिधिसदृशमम्बरतलं विलोक्यते ।
अञ्जनचूर्णपुञ्जश्यामं शार्वरं तमः स्त्यायते ॥ २१ ॥’

उत्कलिकाप्रायेति । उच्चावचभावेन प्रतिभासमानमुत्कलिका । यथा—‘सलीलकरकमलतालिकातरलयावलीकम्’ इति । तथैव तदपि प्रकृतोदाहरणमिति व्यक्तम् । ‘पाताल—’ इत्यादौ वसन्ततिलकाभाग इव, ‘हर इव’ इत्यादावार्याभाग इव प्रतिभातीति ॥

पद्यगन्धिगद्ये वृत्तगन्धौ मध्या, जातिगन्धौ द्रुता यथा—

‘पातालतालुतलवासिषु दानवेषु ।’
'हर इव जितमन्मथो गुह इवाप्रतिहतशक्तिः ॥ २२ ॥’

इति ।

वृत्तगन्धौ मध्या, जातिगन्धाविति । ‘तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य’ (७।१।७४) इति पुंवद्भावेन नुम्न भवति ॥

गद्यादौ मिश्रे गद्यपद्ययोर्द्रुतमध्या यथा—

'हन्त, पुण्यवानस्मि, यदहमतर्कितोपनतदर्शनोल्लसितनयनयानया—

अविरलमिव दाम्ना पौण्डरीकेण नद्धः स्नपित इव च दुग्धस्त्रोतसां निर्झरेण ।
कवलित इव कृत्स्नश्चक्षुषा स्फारितेन प्रसभममृतवर्षेणैव सान्द्रेण सिक्तः ॥ २३ ॥’

हन्तेति । आश्चर्यस्तिमितस्य हन्तेत्येव वागनुभावस्ततोऽभिमानोन्मेषे पुण्यवानस्मीति अनन्तरं लोकोत्तरविभाववर्णनात्त्वरितस्य यदहमित्यागद्यपर्यवसान एवाविरलमित्यादिवृत्तमाविरासीदिति । मध्ये विच्छेदकारणानुपपत्तौ गद्यपद्याभ्यामेकवाक्यम् ॥