295 शब्दावयवश्च ना । मिमीते मातेति शब्दावयवश्च मा । तदर्थो युष्मदर्थश्च लक्ष्मीसंबोधनं च ते । युष्मदर्थो भावप्रत्ययः शब्दावयवश्च त्वम् । शब्दावयवास्मदर्थौ च मे । जलयानं न विद्यते और्द्विवचनं यस्यां सा अद्वितीयेत्यर्थः शब्दावयवश्च नौः ।

पदग्राहाद्यथाकामं कामधेनुरियं तु नः ।
परार्धानां परार्धानि प्रसूते श्लोकतर्णकान् ॥ १२४ ॥
एकाक्षरादिच्छन्दोभिर्गतिबन्धादिभेदतः ।
उक्तानुक्तानि चित्राणि सर्वाण्येषा प्रसूयते ॥ १२५ ॥
सकृदुच्चारणे चास्या गच्छत्येका विनाडिका ।
तत्षष्ट्या नाडिका ताभिः षष्ट्याहोरात्रमृच्छति ॥ १२६ ॥
प्रणवादिनमोन्तानि पदान्यस्या जपन्ति ये ।
सर्वभाषासु वाक्तेषामविच्छिन्ना प्रवर्तते ॥ १२७ ॥
सिद्धैर्मन्त्रपदैः सेयं शास्त्राण्यालोच्य निर्मिता ।
जपतां जुह्वतां देवी सर्वान्कामान्प्रयच्छति ॥ १२८ ॥
स्थितेनागन्तुकं इत्यादीप्सितेन विभाजयेत् ।
तद्भेदास्ते भवन्त्येवमन्येष्वपि हि योजयेत् ॥ १२९ ॥
दुष्करत्वात्कठोरत्वाद्दुर्बोधत्वाद्विनावधेः ।
दिङ्मात्रं दर्शितं चित्रे शेषमूह्यं महात्मभिः ॥ १३० ॥

या गीरिति । पदग्रहादिति । तथाहि पञ्चदशभ्यः पदेभ्यः क्रमव्युत्क्रमाभ्यां नवादिपदयोगेऽङ्गीक्रियमाणे बृहतीजातेरारभ्य प्रतिजातिपादे ये विकल्पास्तैरुत्तरोत्तरमाहन्यमानैः, यदि वा समस्तेऽपि श्लोके षष्टिपदेभ्यश्चतुर्विंशत्यष्टाविंशत्यादिपदयोजनायां गायत्रीजातेरारभ्य प्रंतिजातिपादे ये विकल्पास्तैः परार्धेभ्यः परार्धानि तर्णकाः श्लोकाः समुत्पद्यन्ते इतीयं परार्धपरार्धधेनुः । एकाक्षरेति । अर्थत्रयप्रतिपादकत्वेन प्रतिपादं पदत्रये परिकल्प्यमानेऽनेकविधच्छन्दोभिरुक्तानि चतुर्व्यञ्जनादीन्यनुक्तानि खङ्गप्रभृतीनि सर्वचित्राण्येषैव यथाकामं प्रसूयत इत्यर्थः ॥