298

गूढोक्तिर्द्विधा । मुख्या गौणी च । तयोर्मुख्या यथा—

‘केशव यमुनातीरे व्याहृतवानुषसि हंसिकां कोऽद्य ।
कान्ताविरहभयातुरहृदयः प्रायः प्रियेऽहं सः ॥ ३५२ ॥’

अत्र प्रिये हंस इत्यत्रावर्णलोपे प्रिये अहं स इत्यर्थस्य मुख्ययैव वृत्त्या गूढत्वादियं मुख्या गूढोक्तिर्नाम वाकोवाक्यम् ॥

गौणी यथा—

‘निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् ।
उत्पत्तिरिन्दोरपि निष्फलैव कृता विनिद्रा नलिनी न येन ॥ ३५३ ॥’

ताविमौ पूर्वोत्तरार्धयोरन्योन्योक्त्या गूढकामलेखावितीयं गौणी गूढोक्तिर्नाम वाकोवाक्यम् ॥

प्रश्नोत्तरोक्तिर्द्विधा । अविधीयमानहृद्या प्रतीयमानहृद्या च । तयोराद्या यथा—

‘क्क प्रस्थितासि करभोरु घने निशीथे प्राणेश्वरो वसति यत्र मनःप्रियो मे ।
एकाकिनी वद कथं न बिभेषि बाले नन्वस्ति पुङ्खितशरो मदनः सहायः ॥ ३५४ ॥’

सेयं हृद्गतप्रष्टव्यस्यैव स्पष्टमभिधायैवाभिधानादभिधीयमानहृद्या नाम प्रश्नोक्तिर्वाकोवाक्यम् ॥

द्वितीया यथा—

‘कियन्मात्रं जलं विप्र जानुदघ्नं नराधिप ।
तथापीयमवस्था ते नहि सर्वे भवादृशाः ॥ ३५५ ॥’

सेयं शब्दविद्यावैशारद्यस्य हृद्यस्य प्रतीयमानत्वात्प्रतीयमानहृद्यप्रश्नोत्तरोक्तिर्वाकोवाक्यम् ॥