299

चित्रोक्तिर्द्विधा । चित्रा विचित्रा च । तयोश्चित्रा यथा—

‘लभ्यन्ते यदि वाञ्छितानि यमुनाभागीरथीसंगमे देव प्रेष्यजनस्तदेष भवतो भर्तव्यतां वाञ्छति ।
नन्वेतन्मरणेन किं नु मरणं कायान्मनोविच्युति- र्दीर्घं जीव मनस्तवाङ्घ्रिकमले कायोऽत्र नस्तिष्ठति ॥ ३५६ ॥’

तदिदं स्वकल्पितोक्तिप्रत्युक्तिभ्यां जीवतोऽपि जन्मान्तरावाप्तिसाधनेनाश्चर्यहेतुरिति चित्रा नाम चित्रोक्तिप्रत्युक्तिर्वाकोवाक्यम् ॥

द्वितीया यथा—

‘कोऽयं भामिनि भूषणं कितव ते शोणः कथं कुङ्कुमा- त्कूर्पासान्तरितः प्रिये विनिमयः पश्यापरं क्वास्ति मे ।
पश्यामीत्यभिधाय सान्द्रपुलको मृद्नन्मृडान्याः स्तनौ हस्तेन प्रतिनिर्जितेन्दुरवताद्द्यूते हसन्वो हरः ॥ ३५७ ॥’

अत्रोक्तिप्रत्युक्त्योरनन्तरं स्तनमर्दनवैचित्र्यादिना परिसमाप्तेर्विचित्रसंज्ञमिदं वाकोवाक्यम् ॥

प्रहेलिका सकृत्प्रश्नः सापि षोढा च्युताक्षरा ।
दत्ताक्षरोभयं मुष्टिर्बिन्दुमत्यर्थवत्यपि ॥ १३३ ॥
क्रीडागोष्ठीविनोदेषु तज्ज्ञैराकीर्णमन्त्रणे ।
परव्यामोहने चापि सोपयोगा प्रहेलिका ॥ १३४ ॥

तासु च्युताक्षरा यथा—

‘पयोधरभराक्रान्ता संनमन्ती पदे पदे ।
पदमेकं न का याति यदि हारेण वर्जिता ॥ ३५८ ॥’