157
समस्तरीतिर्व्यामिश्रा लाटीया रीतिरुच्यते ।
पूर्वरीतेरनिर्वाहे खण्डरीतिस्तु मागधी ॥ ३३ ॥

समस्तेति । यद्यप्युपक्रान्तरीत्यनिर्वाहोऽत्राप्यस्ति तथापि तिलतण्डुलवद्यावद्विभक्तरीतिसंवलनस्य कविसंरम्भगोचरस्योत्तररीतेः पृथग्भावः । पूर्वरीतेरिति । एकां रीतिमुपक्रम्य यदन्यया संदर्भनिर्वहणमसावन्य एव प्रकारः । न चानिर्वाहो दोषश्छायावैरूप्याभावात् । रीतिखण्डनेऽपि हि संदर्भसौभाग्यसंपत्तिः शक्तिमेवाविष्करोति ॥

तासु वैदर्भी यथा—

‘मनीषिताः सन्ति गृहेषु देवतास्तपः क्व वत्से क्व च तावकं वपुः ।
पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ॥ २५ ॥’

सेयमसमस्तपदा 112समग्र श्लेषादिगुणवती वैदर्भी रीतिः ॥

मनीषिता इति । अत्र दीर्घसमासाभावे कथमोज इति कस्यचित्कुदेश्यमपरीतिमत्प्रकरण एवेत्यपास्तम् । एतेन गुणनवकस्य समकक्षतया संभेदः क्षण इति । असमस्तपदेत्यनुल्लेखसमासपदेत्यर्थः । समग्रा नव । गुणवतीति नित्ययोगे मतुप् ॥

पाञ्चाली यथा—

‘गात्राविघातदलिताङ्गदजर्जराणां गण्डस्थलीलुलितकुण्डलताडितानाम् ।
क्षोभस्फुटन्मुकुटकोटिविघट्टितानां नादोऽभवज्झणझणामुखरो मणीनाम् ॥ २६ ॥’

सेयमोजःकान्त्यभावादाश्लिष्ट113श्लथपुराणच्छायामाधुर्यसौकुमार्यवती समस्तपञ्चषपदा पाञ्चाली रीतिः ॥

गात्राविघातेति । अत्राद्यतृतीययोः षड् द्वितीये च पञ्च पदानि समस्तानि । ओजःकान्त्यभावादिति । ईषदर्थे नञ् । अत एव माधुर्यसौकुमार्ययोरुन्मेषः । श्लिष्टा प्राप्ता यथासंख्यमोजःकान्तिनिमीलनलब्धप्रादुर्भावा श्लथा पुराणी च च्छाया ययेति विग्रहः ॥

  1. ‘समस्त’ ख
  2. ‘श्लथभाब’ ख