164
गर्भग्रन्थिषु पञ्चषाः सुमनसो बध्नन्ति चूतद्रुमाः संप्राप्ताः प्रकटीभवन्ति कुररीकण्ठेषु कूजोर्मयः ॥’

अत्र काव्यचतुष्कादुच्छिद्य पादचतुष्टयं ग्रथितमिति खण्डसंघात्यनामायं योनिजकाव्यभेदः ॥

तावन्तमर्थमुपादायाधिको वापश्चूलिका । यथा—

‘कमलमनम्भसि तत्र च कुवलयमेतानि कनकलतिकायाम् ।
सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥’

यथा च—

‘उभौ रम्भास्तम्भावुपरि विपरीतौ कमलयो- स्तदूर्ध्वं रत्नाश्मस्थलमपि दुरूहं किमपि यत् ।
ततः कुम्भौ पश्चाद्विसकिसलये कन्दलमथो तदन्विन्दाविन्दीवरमधुकराः किं पुनरिदम् ॥’

अत्र स्थाने स्थानेऽधिकावापस्य प्रत्यभिज्ञानाच्चूलिकानामायं योनिजकाव्यभेदः ॥ बन्धच्छायामात्रसंवादी परिमलः । यथा—

‘अनेन यूना सह पार्थिवेन रम्भोरु कच्चिन्मनसो रुचिस्ते ।
सिप्रातरङ्गानिलकम्पितासु विहर्तुमुद्यानपरम्परासु ॥’

यथा च—

‘यात्राप्रसङ्गादुपवीणयन्ती तस्यां महाकालमविप्रतिष्ठम् ।
कृशाङ्गि वीणागुणसारणासु चिरात्कलाभ्यासफलं लभेथाः ॥’

अत्र संदर्भच्छायामात्रमनुकृतमिति परिमलनामायं योनिजकाव्यभेदः ॥

तासु लोकोक्तिच्छाया यथा—

‘शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ मासानेतान्गमय चतुरो लोचने मीलयित्वा ।
पश्चादावां विरहगुणितं तं तमात्माभिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ ३७ ॥’

सेयं लोचने मीलयित्वेति लोकोक्तेरनुकृतिर्लोकोक्तिच्छाया ॥

शापान्त इति । लोचने मीलयित्वेत्यनेन लोकोक्त्यनुकारेण नयननिमीलनवदाशुभाविता समागमसमयस्य प्रतिपाद्यते । तथा च—सुकुमारतरकान्ताजी