172

परिसंख्योक्तिर्यथा—

‘पञ्च पञ्चनखा भक्ष्या वामेनाक्ष्णा न पश्यति ।
काठिन्यमस्याः कुचयोः किमसद्यन्न रोचते ॥ ५२ ॥’

तदिदं विधिनिषेधाभ्यां शेषाभ्यनुज्ञानं परिसंख्येत्युच्यते ॥

पञ्च पञ्चेति । पञ्चनखेषु पञ्च भक्ष्या नान्ये । कुचयोरस्याः काठिन्यं न वचनादाविति विशेषविधी शेषनिषेधमनुजानीतः । वामेन न पश्यति दक्षिणेन तु पश्यत्येव । किमसत्किमशोभनम् ? यद्यस्मै न रोचते इतरत्तु सदेवेति विशेषनिषेधौ शेषविध्यभ्यनुज्ञाविषयाविति ॥

अयुज्यमानस्य मिथःशब्दस्यार्थस्य वा पुनः ।
योजना क्रियते यासौ युक्तिरित्युच्यते बुधैः ॥ ४४ ॥

अयुज्यमानस्येति । पूर्वं पदैकवाक्यता ततो वाक्यैकवाक्यत्वमनन्तरं प्रकरणैकवाक्यत्वमिति प्रबन्धनिर्वहणं यावत्कविव्यापारः । तत्र ‘गामभ्याज शुक्लां दण्डेन’ इत्यादीनां लोके गृहीतव्युत्पत्तीनामेव यद्यपि काव्यानुप्रवेशस्तथापि भङ्गीभणितिसनाथान्येव काव्यपद्धतिमध्यासत इत्यप्रहतानामुपादेयत्वे यत्रापाततः परस्परमन्वयो न प्रतिभासते तत्रावश्यं कविना स्वाभिप्रायप्रतिच्छन्दकभूतविशेषनिवेशनेन विवक्षितवाक्यार्थप्रतीत्यस्खलनं विधेयम्, अत एव वैचित्र्यादलंकारता । तदिदमुक्तम् —अयुज्यमानस्येति । आपातत इति शेषः । योजना अन्वयौपयिकरञ्जकविशेषनिवेशनं तस्य विषयः । शब्दाथा शब्दः पदं वाक्यं प्रकरणं प्रबन्धः । अर्थः पदार्थो वाक्यार्थश्च ॥

विषयभेदात् षोढा युक्तिरित्याह—

पदं चैव पदार्थश्च वाक्यं वाक्यार्थ एव च ।
विषयोऽस्याः प्रकरणं प्रबन्धश्चाभिधीयते ॥ ४५ ॥

पदं चैवेति ॥

तत्र—

योगकारणपर्यायाङ्गाङ्गिगभावपरम्पराः ।
पदयुक्तेर्निमित्तं स्युर्निरूढाः पदसिद्धये ॥ ४६ ॥