181

सेयं ठंठमित्यादेर्निरर्थकस्य श्लोकपादस्यार्थानुगुण्येन वाक्ये रहितत्वाच्छब्दरचना ॥

रामेति । राज्याभिषेकोत्सवजातहर्षायाः करात्प्रच्युतस्य सोपानपरम्परासु स्खलतः काञ्चनकलशस्य भूभागप्राप्तिर्यावत्क्रमेणोच्चरन्ती शब्दमालानुकृतेति प्रकृतार्थानुगुण्यम् । एवं हि करच्युतमपि न संभावयतीति कोऽपि मदप्रकर्षो व्यज्यते ॥

अर्थकृता यथा—

‘दिक्कालात्मसमैव यस्य विभुता यस्तत्र विद्योतते यत्रामुष्य सुधीभवन्ति किरणा राशेः स यासामभूत् ।
यस्तत्पित्तमुषः स यस्य हविषे यस्तस्य जीवातवे वोढा यद्गुणमेष मन्मथरिपोस्ताः पान्तु वो मूर्तयः ॥ ६६ ॥’

सेयं व्योमादीनामष्टानामपि महेशमूर्तिलक्षणानामर्थानामुत्तरोत्तरसंकलनया रचितत्वादर्थरचना ॥

दिक्कालेति । दिक्कालात्मतुल्यं सर्वमूर्तं संयोगाश्रयतालक्षणं विभुत्क्माकाशस्यैव तस्मिन्नर्थाक्षिप्ते यच्छब्दोऽयमुद्देश्यगामी निविशते तमुपजीव्य तच्छब्देन प्रतिनिर्देशो युक्तः । आकाशे विशेषेण चन्द्रतारादितेजोभिभवसामर्थ्यलक्षणेन द्योतते भगवानादित्य इति यच्छब्देन तमुद्दिश्योत्तरवाक्येऽदसा प्रतिनिर्दिष्टवान् । कर्णगत्या प्रतिफलिताः सूर्यकिरणाः सलिलमयेष्टाशिन्येव सुधाव्यपदेशं लभन्ते, तत्रैव यच्छब्दो निविष्टस्तदुपनीतमर्थमुत्तरस्तच्छव्दो विषयीकरोतीत्यादि—अपामेव राशेश्चन्द्रो जातस्तासां पित्तं वन्हिस्तस्य सायंप्रातराहुतये यजमानः स वायुना जीवति । स च पृथिवीगुणं गंन्धं वहतीति पूर्वपूर्वसंकलनेनोत्तरवाक्यार्थरचना विहितेति । यद्यपि चार्थगुम्फे शब्दगुम्फो ध्रुवभावी, तथापि प्रथमानुसंधेयमर्थगुम्फनमेवात्र प्रधानमिति तेनैव व्यपदेशो युक्त इत्याशयवान्व्याचष्टे—अत्रेति । यदीयं शृङ्खला न प्रतिसंधीयते कथं परमेश्वरमूर्तयोऽष्टौ लभ्यन्त इति भावः ॥

क्रमकृता यथा—

‘नीलाब्जानां नयनयुगलद्राघिमा दत्तपत्रः कुम्भावैभौ कुचपरिकरः पूर्वपक्षीचकार ।’