Adhikāra 53
वमनानन्तरं तत्र विरेकं मृदु कारयेत् ॥
सम्यग्वान्तविरिक्तस्य सुस्निग्धस्यानुवासनम् ॥
आस्थापनं चिरोद्भूते देयं दोषाद्यपेक्षया ॥ १ ॥
क्रियाशुद्धस्य शमनी अनुबन्धाद्यपेक्षया ॥
दोषसंसर्गजा कार्या भेषजाहारकल्पना ॥ २ ॥
ऊर्ध्वगं वमनैर्धीमानधोगं रेचनैर्हरेत् ॥
तिक्तभूयिष्ठमाहारं पानं चापि प्रकल्पयेत् ॥ ३ ॥
यवगोधूमविकृतीस्तीक्ष्णसंस्कारवर्जिताः ॥
यथास्वं लाजसक्तून्वा सितामधुयुतान्पिबेत् ॥ ४ ॥
निस्तुषयववृषधात्रीक्वाथस्त्रिसुगन्धमधुयुतः पीतः ॥
अपनयति चाम्लपित्तं यदि भुङ्क्ते मुद्गयूषेण ॥ ५ ॥
कफपित्तवमीकण्डूज्वरविस्फोटदाहहा ॥
पाचनो दीपनः क्वाथः शृङ्गवेरपटोलयोः ॥ ६ ॥
पटोलं नागरं धान्यं क्वाथयित्वा जलं पिबेत् ॥
कण्डूपामातिशूलघ्नं कफपित्ताग्निमान्द्यजित् ॥ ७ ॥
पटोलनिम्बामृतरोहिणीकृतं जलं पिबेत्पित्तकफोच्छ्रये वा ॥
शूलभ्रमारोचकवह्निमान्द्यदाहज्वरच्छर्दिनिवारणं हि तत् ॥ ८ ॥
यवकृष्णापटोलानां क्वाथं क्षौद्रयुतं पिबेत् ॥
नाशयेदम्लपित्तं च अरुचिं च वमिं तथा ॥ ९ ॥
वासामृतापर्पटकनिम्बभूनिम्बमार्कवैः ॥
त्रिफलाकुलकैः क्वाथः सक्षौद्रश्चाम्लपित्तहा ॥ १० ॥
फलत्रिकं पटोलं च तिक्तक्वाथः सितायुतः ॥
पीतः क्लीतकमध्वक्तो ज्वरच्छर्द्यम्लपित्तहा ॥ ११ ॥
वासानिम्बपटोलत्रिफलासनयासयोजितो जयति ॥
अधिककफमम्लपित्तं प्रयोजितो गुग्गुलुः क्रमशः ॥ १२ ॥
छिन्नाखदिरयष्ट्याह्वदार्व्यम्भो वा मधुद्रवम् ॥ १३ ॥
सद्राक्षामभयां खादेत्सक्षौद्रां सगुडां च ताम् ॥
कटुकासिताऽवलेह्या पटोलविश्वं च क्षौद्रसंयुक्तम् ॥
रक्तस्रुतौ च युक्त्या खण्डं कूष्माण्डकं श्रेष्ठम् ॥ १४ ॥
पटोलत्रिफलारिष्टशृतं मधुयुतं पिबेत् ॥
पित्तश्लेष्मज्वरच्छर्दिदाहत्वग्दोषशान्तये ॥ १५ ॥
सिंहास्यामृतभण्टाकीक्वाथं पीत्वा समाक्षिकम् ॥
अम्लपित्तं जयेज्जन्तुः कासं श्वासं ज्वरं वमिम् ॥ १६ ॥
वासाघृतं तिक्तघृतं च युक्त्या मधूत्कटां मागधिकां लिहेद्वा ॥
अन्यद्यदेवं गुणवच्च सर्पिस्तदम्लपित्तं शमयत्युदीर्णम् ॥ १७ ॥
एकोंऽशः पञ्चनिम्बानां द्विगुणो वृद्धदारकः ॥
सक्तुर्दशगुणो देयः शर्करामधुरीकृतः ॥ १८ ॥
शीतेन वारिणा पीतं शूलं पित्तकफोद्भवम् ॥
निहन्ति चूर्णं सक्षौद्रमम्लपित्तं सुदुस्तरम् ॥ १९ ॥
पिष्ट्वाऽजाजीं सधान्याकां घृतप्रस्थं विपाचयेत् ॥
कफपित्तारुचिहरं मन्दानलवमिं जयेत् ॥ २० ॥
पटोलशुण्ठीकल्काभ्यां केवलं कुलकेन वा ॥
घृतप्रस्थं विपक्तव्यं कफपित्तहरं परम् ॥ २१ ॥
पिप्पलीक्वाथकल्केन घृतं सिद्धं मधुप्लुतम् ॥
पिबेन्ना प्रातरुत्थाय अम्लपित्तनिवृत्तये ॥ २२ ॥
द्राक्षामृताशक्रपटोलपत्रैः सोशीरधात्रीघनचन्दनैश्च ॥ २३ ॥
त्रायन्तिकापद्मकिरातधान्यैः कल्कैः पचेत्सर्पिरुपेतमेभिः ॥
युञ्जीत मात्रां सह भोजनेन सर्वर्तुपाने तु भिषग्विदध्यात् ॥ २४ ॥
वातस्थपित्तं ग्रहणीं प्रवृद्धां कासाग्निसादं ज्वरमम्लपित्तम् ॥
सर्वं निहन्याद्घृतमेतदाशु सम्यक्प्रयुक्तं ह्यमृतोपमं च ॥ २५ ॥
शतावरीमूलकल्कं घृतप्रस्थं पयः समम् ॥
पचेन्मृद्वग्निना सम्यक्क्षीरं दत्त्वा चतुर्गुणम् ॥ २६ ॥
नाशयेदम्लपित्तं च वातपित्तोद्भवान्गदान् ॥
रक्तपित्तं तृषां मूर्छां श्वासं संतापमेव च ॥ २७ ॥
अम्लपित्ते प्रयोक्तव्यः कफपित्तहरो विधिः ॥
गुडकूष्माण्डकं चैव तथा खण्डामलक्यपि ॥ २८ ॥
गुडक्षीरकणासिद्धं सर्पिरत्रापि योजयेत् ॥
गुडपिप्पलीपथ्याभिस्तुल्याभिर्मोदकः कृतः ॥
पित्तश्लेष्मापहः प्रोक्तो मन्दमग्निं च दीपयेत् ॥ २९ ॥
ज्वलन्तमिव चाऽऽत्मानं मन्यते योऽम्लपित्तवान् ॥
तस्य संशोधनं पथ्यं न शान्तिः शोधनं विना ॥ ३० ॥
अचिरोत्थे चिरोत्थे च वमनं तत्र कारयेत् ॥ ३१ ॥