391
एकोंऽशः पञ्चनिम्बानां द्विगुणो वृद्धदारकः ॥
सक्तुर्दशगुणो देयः शर्करामधुरीकृतः ॥ १८ ॥
शीतेन वारिणा पीतं शूलं पित्तकफोद्भवम् ॥
निहन्ति चूर्णं सक्षौद्रमम्लपित्तं सुदुस्तरम् ॥ १९ ॥
पिष्ट्वाऽजाजीं सधान्याकां घृतप्रस्थं विपाचयेत् ॥
कफपित्तारुचिहरं मन्दानलवमिं जयेत् ॥ २० ॥
पटोलशुण्ठीकल्काभ्यां केवलं कुलकेन वा ॥
घृतप्रस्थं विपक्तव्यं कफपित्तहरं परम् ॥ २१ ॥
पिप्पलीक्वाथकल्केन घृतं सिद्धं मधुप्लुतम् ॥
पिबेन्ना प्रातरुत्थाय अम्लपित्तनिवृत्तये ॥ २२ ॥
द्राक्षामृताशक्रपटोलपत्रैः सोशीरधात्रीघनचन्दनैश्च ॥ २३ ॥
त्रायन्तिकापद्मकिरातधान्यैः कल्कैः पचेत्सर्पिरुपेतमेभिः ॥
युञ्जीत मात्रां सह भोजनेन सर्वर्तुपाने तु भिषग्विदध्यात् ॥ २४ ॥
वातस्थपित्तं ग्रहणीं प्रवृद्धां कासाग्निसादं ज्वरमम्लपित्तम् ॥
सर्वं निहन्याद्घृतमेतदाशु सम्यक्प्रयुक्तं ह्यमृतोपमं च ॥ २५ ॥