183
पानरोगे कफोद्भूते लङ्घनं च यथाबलम् ॥
दीपनीयौषधोपेतं पिबेन्मद्यं समाहितः ॥ ८ ॥
सर्वजे सर्वमेवेदं प्रयोक्तव्यं चिकित्सितम् ॥ ९ ॥
आभिः क्रियाभिः सिद्धाभिः शान्तिं याति मदात्ययः ॥ १० ॥
न चेन्मद्यक्रमं मुक्त्वा क्षीरमस्य प्रयोजयेत् ॥
लङ्घनाद्यैः कफे क्षीणे जाते दौर्बल्यलाघवे ॥ ११ ॥
ओजस्तुल्यगुणं क्षीरं विपरीतं च मद्यतः ॥
क्षीरप्रयोगं मद्यं च क्रमेणाल्पाल्पमाचरेत् ॥ १२ ॥
पयःपुनर्नवाक्वाथयष्टीकल्कप्रसाधितम् ॥
घृतं पुष्टिकरं पानान्मद्यपानहतौजसाम् ॥ १३ ॥
सौवर्चलमजाज्यश्च वृक्षाम्लं साम्लवेतसम् ॥
त्वगेलामरिचार्धांशं शर्कराभागयोजितम् ॥ १४ ॥
एतल्लघणमष्टाङ्गमग्निसंदीपनं परम् ॥
मदात्यये कफप्राये दद्यात्स्रोतोविशोधनम् ॥ १५ ॥
चव्यं सौवर्चलं हिङ्गु पूरकं विश्वदीप्यकम् ॥
चूर्णं मद्येन पातव्यं पानात्ययरुजापहम् ॥ १६ ॥