271
त्र्यूषणत्रिफलाधान्यविडङ्गचव्यचित्रकैः ॥
कल्कीकृतैर्घृतं सिद्धं सक्षीरं वातगुल्मनुत् ॥ ४९ ॥
द्राक्षामधुकखर्जूरं विदारीं सशतावरीम् ॥
परूषकाणि त्रिफलां साधयेत्पलसंमिताम् ॥ ५० ॥
जलाढके पादशेषे रसमामलकस्य च ॥
घृतमिक्षुरसं क्षीरमभयाकल्कपादिकम् ॥ ५१ ॥
साधयेत्तु घृतं सिद्धं शर्कराक्षौद्रपादिकम् ॥
पित्तगुल्महरं सर्पिः सर्वपित्तामयापहम् ॥ ५२ ॥
सव्योषक्षारलवणं दशमूलशृतं घृतम् ॥
कफगुल्मं हरत्याशु सहिङ्गुबिडदाडिमम् ॥ ५३ ॥
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः ॥
पलिकैः सवयक्षारैर्घृतप्रस्थं विपाचयेत् ॥ ५४ ॥
क्षीरप्रस्थेन तत्सर्पिर्हन्ति गुल्मं कफात्मकम् ॥
ग्रहणीपाण्डुहृद्रोगप्लीहकासज्वरापहम् ॥ ५५ ॥