313
पिप्पलीकल्कसंयुक्तं घृतं क्षीरचतुर्गुणम् ॥
पचेत्प्लीहाग्निसादादियकृद्रोगहरं परम् ॥ ५८ ॥
रोहितकत्वचः श्रेष्ठाः पलानां पञ्चविंशतिः ॥
कोलद्विप्रस्थसंयुक्तं कषायमुपकल्पयेत् ॥ ५९ ॥
पलिकैः पञ्चकोलैश्च तैः सर्वैश्चापि तुल्यया ॥
रोहितकत्वचा पिष्टैर्घृतप्रस्थं विपाचयेत् ॥ ६० ॥
प्लीहातिवृद्धिं शमयेदेतदाशु प्रयोजितम् ॥
तथा गुल्मज्वरश्वासकृमिपाण्डुत्वकामलाः ॥ ६१ ॥
रोहितकात्पलशतं क्षोदयेद्बदराढकम् ॥ ६२ ॥
साधयित्वा जलद्रोणे चतुर्भागावशेषितम् ॥
घृतप्रस्थं समावाप्य च्छागक्षीरं चतुर्गुणम् ॥ ६३ ॥
तस्मिन्दद्यादिमान्कल्कान्सर्वांस्तानक्षसंमितान् ॥
व्योषं फलत्रिकं हिङ्गु यवानीं तुम्बरुं बिडम् ॥ ६४ ॥
अजाजीं कृष्णलवणं दाडिमं देवदारु च ॥
पुनर्नवां विशालां च यवक्षारं सपौष्करम् ॥ ६५ ॥
विडङ्गं चित्रकं चैव हपुषां चबिकां वचाम् ॥
एतैर्घृतं विपक्वं तत्स्थापयेद्भाजने शुभे ॥ ६६ ॥
पाययेत्त्रिपलां मात्रां व्याधेर्बलमपेक्ष्य च ॥
रसकेनाथ यूषेण पयसा वाऽपि भोजयेत् ॥ ६७ ॥