314
उपयुक्ते घृते तस्मिन्व्याधीन्हन्यादिमान्बहून् ॥
यकृत्प्लीहोदरं चैव प्लीहशूलं यकृत्तथा ॥ ६८ ॥
कुक्षिशूलं हृदि शूलं पार्श्वशूलमरोचकम् ॥
विबन्धशूलं शमयेत्पाण्डुरोगं सकामलम् ॥ ६९ ॥
छर्द्यतीसारशमनं तन्द्राज्वरविनाशनम् ॥
महारोहितकं नाम प्लीहघ्नं श्रेष्ठमौषधम् ॥ ७० ॥

Adhikāra 38

हरीतकीनागरदेवदारुपुनर्नवाछिन्नरुहाकषायः ॥
सगुग्गुलुर्मूत्रयुतश्च पेयः शोथोदराणां प्रवरः प्रयोगः ॥ १ ॥
एरण्डतैलं दशमूलमिश्रं गोमूत्रयुक्तस्त्रिफलारसो वा ॥
निहन्ति वातोदरशोथशूलं क्वाथः समूत्रो दशमूलजश्च ॥ २ ॥
पुनर्नवानिम्बपटोलशुण्ठीतिक्तामृतादार्व्यभयाकषायः ॥
सर्वाङ्गशोफोदरकासशूलश्वासान्वितं पाण्डुगदं निहन्ति ॥ ३ ॥
पुनर्नवां दार्वभयां गुडूचीं पिबेत्समूत्रां महिषाक्षयुक्ताम् ॥
त्वग्दोषशोफोदरपाण्डुरोगस्थौल्यप्रसेकोर्ध्वकफामयेषु ॥ ४ ॥