339
वृद्ध्यर्शोग्रहणीरोगगलगण्डार्बुदापचीः ॥
घृतं सौरेश्वरं नाम श्लीपदं कृमिरोगनुत् ॥ २८ ॥
विडङ्गमरिचार्केषु नागरे चित्रके तथा ॥
भद्रदार्वेलुकाख्ये च सर्वेषु लवणेषु च ॥
तैलं पक्वं पिबेद्वाऽपि श्लीपदानां निवृत्तये ॥ २९ ॥

Adhikāra 43

जलौकापातनं शस्तं सर्वस्मिन्नेव विद्रधौ ॥
मृदुर्विरेको लघ्वन्नं स्वेदः पित्तोत्तरं विना ॥ १ ॥
वातघ्नमूलकल्कैस्तु वसातैलघृतप्लुतैः ॥
सुखोष्णो बहुलो लेपः प्रयोज्यो वातविद्रधौ ॥ २ ॥