353
क्षतोष्मणो निग्रहार्थं तत्कालं विसृतस्य च ॥
कषायाः शीतमधुराः स्निग्धा लेपादयो हिताः ॥ ४ ॥
आमाशयस्थे रुधिरे वमनं पथ्यमुच्यते ॥
पक्वाशयस्थे देयं च विरेचनमसंशयम् ॥ ५ ॥
क्वाथो वंशत्वगेरण्डश्वदंष्ट्राश्मभिदा कृतः ॥
सहिङ्गुलवणः पीतः कोष्ठस्थं स्रावयेदसृक् ॥ ६ ॥
यवकोलकुलत्थानां निस्नेहेन रसेन च ॥
भुञ्जीतान्नं यवागूं वा पिबेत्सैन्धवसंयुताम् ॥ ७ ॥
अत्यर्थमस्रं स्रवति प्रायशो यत्र वै क्षते ॥
ततो रक्तक्षयाद्वायौ कुपितेऽतिरुजाकरे ॥ ८ ॥
स्नेहपानपरीषेकस्निग्धलेपोपनाहनम् ॥
स्नेहबस्तिं च कुर्वीत वातघ्नौषधसाधितम् ॥ ९ ॥
इति साप्ताहिकः प्रोक्तः सद्योव्रणहितो विधिः ॥
सप्ताहात्परतः कार्या शारीरव्रणवत्क्रिया ॥ १० ॥
गौरा हरिद्रा मञ्जिष्ठा मांसी मधुकमेव च ॥
प्रपौण्डरीकं हीवेरं भद्रमुस्तं सचन्दनम् ॥ ११ ॥
जातीनिम्बपटोलं च करञ्जः कटुरोहिणी ॥
मधूच्छिष्टं मधूकं च महामेदा तथैव च ॥ १२ ॥
पञ्चवल्कलतोयेन घृतप्रस्थं विपाचयेत् ॥
एष गौरो महावीर्यः सर्वब्रणविशोधनः ॥ १३ ॥