358
गुरु शीतं मृदु स्निग्धं बहुलं स्थूलपिच्छिलम् ॥
प्रायो मन्दं स्थिरं श्लक्ष्णं बृंहणं द्रव्यमुच्यते ॥ ६ ॥
गृष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितम् ॥
शीतलं लाक्षया युक्तं प्रातर्भग्नः पिबेन्नरः ॥ ७ ॥
सघृतेनास्थिसंहारं लाक्षां गोधूममर्जुनम् ॥
संधिमुक्तेऽस्थिभग्ने च पिबेत्क्षीरेण मानवः ॥ ८ ॥
रसोनमधुलाक्षाज्यसिताकल्कं समश्नताम् ॥
छिन्नभिन्नच्युतास्थीनां संधानमचिराद्भवेत् ॥ ९ ॥
क्षीरं सलाक्षामधुकं च सर्पिः स्याज्जीवनीयं च पिबेत्सुखार्थी ॥
भग्नः पिबेत्त्वक्पयसाऽर्जुनस्य गोधूमचूर्णं सघृतेन वाऽथ ॥ १० ॥
लाक्षास्थिसंहृत्ककुभाश्वगन्धा चूर्णीकृता नागबला पुरश्च ॥
संभग्नमुक्तास्थिरुजं निहन्यादङ्गानि कुर्यात्कुलिशोपमानि ॥ ११ ॥
आभाफलत्रिकव्योषैः सर्वैरेभिः समांशकैः ॥
तुल्यो गुग्गुलुरायोज्यो भग्नसंधिप्रसाधकः ॥ १२ ॥