65
न्तिकः, धूमपावकयोरिव कादाचित्कज्ञानकादाचित्ककारणयोः
प्रत्यक्षानुपलम्भाभ्यां व्याप्तिसिद्धेः । 234कादाचित्कज्ञानस्य चाकादा
चित्ककारणादुत्पत्तौ कादाचित्ककारणादनुत्पत्तिप्रसङ्गः । अनियत
हेतुकतायां चाहेतुकताप्रसङ्गः, तथाऽप्यनैकान्तिकत्वे प्रसिद्ध
धूमादिहेतुरप्यनैकान्तिकः स्यात्, विशेषाभावात् । अपि चाहं235
कारस्य अकादाचित्ककारणपूर्वकत्वे सदैवोदयप्रसङ्गः । कारणस्य
कुर्वद्रूपत्वात्, अकुर्वतश्चोपचारतः का णत्वात्, कुर्वदकुर्वतो
रैक्याभावात् । भावे वा कुर्वतोऽप्यकुवद्रूपतापत्तिः, तत्स्वभाव
त्वात् । किञ्चाहंकारस्य अकादाचित्ककारणादुत्पादे युगपदे
वोत्पादप्रसङ्गः, अव्यग्रसामग्रीकत्वात् । नन्वहंकारस्यालम्बन
मात्मा न कारणमिति चेन्न । अकारणस्यालम्बनत्वायोगादति
प्रसादिति ॥
अथ किमाकाशं नाम किञ्चिद्वस्तुभूतमस्ति ? त नास्ति वा ?
नास्त्येवैतत् । यत्र हि सप्रतिघं द्रव्यमस्ति न तत्राकाशमवकाशं
वा ददाति । यत्र नास्ति तत्र तदभावादेवावकाशः सिद्ध इति
क्व वाऽऽकाशमवकाशं दद्यात् ? यस्मादवकाशप्रदमाकाशं
भण्यते236 तस्मात् सत्यस्मिन् सर्वदा 237सर्वथा सर्वत्रावकाशः
स्यात् । न चैतदस्ति । तस्मान्नास्त्येवाकाशमिति प्रतीमः । एतच्च
वैमाषिकमतमपेक्ष्य दूषणमुक्तम् ॥