66

परैस्त्वाकाशं शब्दगुणकमिष्यते । तच्चैकमिति चेत् समा
नदेशत्वात् सर्वशब्दानां विभागेन श्रवणं न स्यात् । ततस्स
न्निहितदेश इव दूरदेशाभिमतोऽपि शब्दः श्रूयेत । न वान्योऽ
पीत्येकान्तः । दिक्कालयोश्चैकत्वात् पूर्वापरादिप्रत्ययानुपपत्तिः ।
एतेन नित्यस्यापि मनसोऽसम्भव एव । तथा हि--युगपज्
ञानानुत्पत्त्या मनोऽनुमीयते तद्वादिभिः । अनुभूयन्त एव
युगपद्वह्वनि ज्ञानानि नर्त्तकीदर्शनादौ । यदि पुनर्मनो नित्यं
स्यात्तदानीमेतानि ज्ञानानि न युज्यन्ते । तस्मान्नास्त्येव
मनोऽपि ॥


पृथिव्यादयोऽवशिष्यन्ते । ते चावयविपरमाणुभेदेन द्विधा
इष्यन्ते । तत्र योऽवयवी घटादिः परमाणुभिर्द्व्यणुकादि
क्रमेणारब्धः प्रसिद्धः तस्य उपलब्धिलक्षणप्राप्तस्यानुपलम्भो
बाधक इत्युक्तम् । यद्यवयवी नास्ति कथं तर्ह्ययमेकत्वेन प्रति
भासत इति चेत्—

भागा एव हि भासन्ते सन्निविष्टास्तथा तथा ।

तद्वान्नैव पुनः कश्चिन्निर्भागः सम्प्रतीयते ॥

इत्युक्तम् । ननु कोऽयं भागप्रतिभासो नाम ? नानादिग्देशा
वष्टम्भेन सञ्चितः परमाणुप्रतिभास एव । यद्येवं कथं प्रति
भासधर्मः स्थौल्यम्
इत्युक्तं धर्मोत्तरेण; तत्राप्ययमेवार्थः ।
अर्थस्य स्वरूपेण नास्ति वेदनम्; भाक्तं स्यादर्थवेदनम्