स्यादेतत्—ज्ञापको हेतुर्मया प्रयुज्यते न कारकः । तत्कस्मात्पक्षो मे न सिध्य
तीत्याह—तथा हीत्यादि ।


तथाहि ज्ञापको हेतुर्वचो वा तत्प्रकाशकम् ।

सिद्धेर्निमित्ततां गच्छन्साध्यज्ञापकमुच्यते ॥ १२५ ॥

ज्ञापको हेतुरिति । त्रिरूपं लिङ्गं स्वार्थानुमानकाले । वचो वेति । परार्थानुमा
नकाले । तत्प्रकाशकमिति । तस्य हेतोः प्रकाशकम् । सिद्धेरिति । प्रमेयार्थनिश्च
यस्य । अन्यथा यदि सिद्धेरपि निमित्तभावं न यायात्तदा कथं नुकथं न ज्ञापकं भवेत् । एवं
हि सर्वं सर्वस्य ज्ञापकं प्रसज्यते ॥ १२५ ॥