268 शब्दा इति शेषः । तान् शब्दानाश्रित्यैषु घटादिषु तेनाकारेण घटे रूपमित्यादिना
प्रवर्त्तते ज्ञानं, नतु समवायमाश्रित्य वर्त्तत इति सम्बन्धः । अत्र कारणमाह—भेद
स्येत्यादि । नहि समवायघटरूपादीनां सर्वेषां परस्परतो भेद उपलभ्यते । येनेयं
समवायनिबन्धना बुद्धिर्भवेत् । एतेन हेतोरनैकान्तिकत्वं प्रतिज्ञायाश्चानुमानादिबा
धितत्वमुक्तम् ॥ ८३१ ॥ ८३२ ॥ ८३३ ॥ ८३४ ॥
यच्चोक्त मिहबुद्ध्यविशेषा दित्यादि, तत्राह—यद्येक इत्यादि ।
यद्येकस्त्रैलोक्ये समवायः स्यात्तदा कपालेषु (पट) इत्यादयोऽपि धियः प्रसूयेरन् ।
अश्वादिषु च गोत्वादिर्विद्यत इत्येवं स्यात् । ततश्च सावलेयादिभेदवद्गजादिष्वपि
गवादिप्रत्ययो भवेत् । तथाहि—तन्तुषु पट इति यत्समवायबलात्प्रतीतिरुपवर्णिता स
समवायस्तस्य पटस्य कपालादिष्वप्यस्तीति किमिति तथा प्रतीतिर्न भवेत् । स्यादेतत्
न कपाले पट आश्रितस्तेन तथा प्रत्ययो न भवतीति । एतदपि मिथ्या । यतस्तन्तु
ष्वपि पट आश्रित इति यत्समवायबलादुपवर्ण्यते, स समवायः कपालेषु किं नास्ति,
येन तत्र तन्तुष्विव पटोऽस्तीति तद्बुद्धिर्न भवेत् । किन्तु य एव तन्तौ पटस्य सम
वाय इति निर्दिश्यते स एव पटस्य समवायः कपालेषु, तत्कथं सङ्करो न स्यात् ।
तत्—तस्मात्, धीरनवधिः—अवधिरहिता भवेत् । ततश्च द्रव्यगुणकर्मणां द्रव्य
त्वगुणत्वकर्मत्वादिविशेषणैः सम्बन्धस्यैकत्वात् । पञ्चपदार्थविभागो न स्यात् ॥ ८३५ ॥
॥ ८३६ ॥ ८३७ ॥ ८३८ ॥ ८३९ ॥