यद्येवं तर्हि समवायः प्रतिपदार्थं भिन्नः प्राप्नोतीत्याह—इहेत्यादि ।
इहेति समवायोत्थविज्ञानान्वयर्शनात् ।
सर्वत्र समवायोऽयमेक एवेति गम्यते ॥ ८४२ ॥
द्रव्यत्वादिनिमित्तानां व्यतिरेकस्य दर्शनात् ।
धियां द्रव्यादिजातीनां नियमस्त्ववसीयते ॥ ८४३ ॥
इहेति समवायनिमित्तस्य प्रत्ययस्य सर्वत्राभिन्नाकारतयाऽन्वयदर्शनात्सर्वत्रैकः
समवाय इति गम्यते । सत्यपि चैकत्वे द्रव्यत्वादिनिमित्तानां धियां प्रतिनियताधारा
वच्छेदेनोत्पत्तेः व्यतिरेकस्यानन्वयलक्षणस्य दर्शनाद्द्रव्यत्वादिजातीनां व्यतिरेको
विज्ञायते । तेन पञ्चपदार्थसङ्करो न भवति ॥ ८४२ ॥ ८४३ ॥