कथं पुनः सम्बन्धाविशेषेऽप्यमीषामाधाराधेयप्रतिनियमो युज्यत इत्याह—तद्य
थेत्यादि ।
तद्यथा कुण्डदध्नोश्च संयोगैक्येऽपि दृश्यते ।
आधाराधेयनियमस्तथेह नियमो मतः ॥ ८४४ ॥
व्यङ्ग्यव्यञ्जकसामर्थ्यभेदाद्द्रव्यादिजातिषु ।
समवायैकभावेऽपि नैव चेत्स विरुध्यते ॥ ८४५ ॥
यथाहि कुण्डदध्नोः संयोगैकत्वेऽपि भवत्याश्रयाश्रयिप्रतिनियमः, तथा द्रव्यत्वा
दीनां समवायैकत्वेऽपि व्यङ्ग्यव्यञ्जकशक्तिभेदादाधाराधेयप्रतिनियम इति । स इत्या
धाराधेयनियमः ॥ ८४४ ॥ ८४५ ॥
270
आधाराधेय इत्यादिना—प्रतिविधत्ते ।